आदिग्रहणेनेति । तत्तदितरप्रकरणप्रापितानां द्विरुक्तिप्रकाराणाभादिपदेनोपग्रहो विधेयः । तद्यथा—‘अर्वागर्वाग्बलवदुपलग्रन्थयः क्षेत्रशैला दूरे दूरे मणिमयदृषन्मेखलो रत्नसानुः । आरादारान्निधिरयमपां यद्दवीयो दवीयान्दुग्धाम्भोधिस्तदयमसदृक्छिल्प एवादिशिल्पी ॥’ अत्रानुपूर्व्ये द्वे भवत इति द्विरुक्तिः । एवं स्वार्थेऽवधार्यमाणे इत्यादयोऽपि द्विरुक्तिप्रकाराः स्वयमवसेया इत्याशयवानुपलक्षणतया किंचिदुदाहरति—निमूलकाषमिति । ‘कषादिषु यथाविध्यनुप्रयोगः’ इति तस्मिन्नेव प्रयुक्ते द्विरुक्तिसिद्धिः ॥