257
भूषावेषोपकरणगणप्रापणव्यापृतानां नृत्यारम्भप्रणयिनि शिवे पान्तु वाचो गणानाम् ॥ २३५ ॥’

संभ्रमेणेति । भयसंवेगादरात्मकः संभ्रमः संवेगस्त्वरा । सैव प्रकृतोदाहरणे द्विरुक्तिं प्रयोजयति ॥

हर्षावेगविस्मयादयोऽपि संभ्रमस्योपाधयो भवन्ति । तेषु हर्षसंभ्रमेण यथा—

‘रुरुधुः कौतुकोत्तालास्ततस्ताममरावतीम् ।
क्वार्जुनः क्वार्जुन इति ब्रुवन्त्यो नाकयोषितः ॥ २३६ ॥’

ननु हर्षादीनां महाकविप्रबन्धेषु द्विरुक्तिरुपलभ्यते । सा कथमुपग्राह्येत्यत आह—हर्षेति । हर्षादयोऽपि संभ्रमप्रयोजकास्तैरसाधारणतामापन्नैरवच्छिद्यमानः संभ्रमोऽन्योन्यो भवति न च संभ्रमता जहातीति संभ्रमद्विरुक्तिप्रकार एवायमित्यर्थः ॥

आवेगसंभ्रमेण यथा—

‘कञ्चुकं कञ्चुकं मुञ्च हारं हारं परित्यज ।
हा हा दहति दावाग्निर्वस्त्रं वस्त्रमपाकुरु ॥ २३७ ॥’

अत्र मुञ्च परित्यज दहति अपाकुरु इति क्रियापदेष्वावेगसंभ्रमान्नद्विरुक्तेः । तथाहि—अरण्यानीप्रवेशे विजिगीषुद्विषां योषिद्दावाग्निसंभ्रमावेगात्कयाप्येवमुच्यते, तत्र प्रथमं कञ्चुक एवावेगसंभ्रमः । स ह्यागते दावाग्नावुत्तारयितुमशक्यः । ततस्तव्द्यासङ्गहेतौ हारे, अनन्तरं परापतितदावाग्निदीप्ते वाससीति ॥

निगूढगम्भीर उद्वेग आवेगः । ननु कञ्चुकं कञ्चुकमितिवन्मुञ्चेत्यादिकमावेगसंभ्रमप्रभवमेव तत्कथं न द्विरुच्यत इत्यत आह—अत्रेति । कञ्चुकस्य हारेण हारस्योत्तरीयवाससा व्यासङ्गसंभावना संभ्रमहेतुः ॥