261

अस्यापि लक्षणेनैवोक्तोऽर्थः ॥

स्वापेक्षया व्यस्तोऽन्यापेक्षया च समस्तः, द्वितीयो व्यस्तोऽपरः समस्त इति स द्वितीयोभयशब्दवाच्यः । सोऽपि द्विधा—प्रतिपादमन्ताद्योर्गर्भ इवानुप्रासविन्यासात् । तयोः प्रथमश्चक्रवालं यथा—

‘जयति क्षुण्णतिमिरस्तिमिरान्धैकवल्लभः ।
वल्लभीकृतपूर्वाशः पूर्वाशातिलको रविः ॥ २४५ ॥’

अत्र तिमिरवल्लभपूर्वाशेतिशब्दास्तिमिरादिशब्दापेक्षया व्यस्ताः यथा—स्वपूर्वोत्तरपदापेक्षया च समस्ताः पदान्ताद्योर्विनिवेशिता इति यथोक्तलक्षणानुगमाल्लाटीयानुप्रासोऽयमव्यवहितो व्यस्तसमस्तश्चक्रवालमित्युच्यते ॥

द्वितीयमुभयं विवेचयति—स्वापेक्षयेति । तिमिरान्धाश्चक्रवाकाः । यथ श्रुतिद्विरुक्तः पूर्वः पूर्वेणोत्तरश्चोत्तरेण समस्त इति पूर्वस्माद्विशेषः ॥

एतेन पादमध्येऽनुप्रासविन्यासाद्गर्भोऽपि व्याख्यातः । यथा—

‘समाधवा माधवदत्तदृष्टिः सकौतुका कौतुकमन्दिरे स्तात् ।
सविभ्रमा विभ्रमदायिनी वः सपङ्कजा पङ्कजलोचना श्रीः ॥ २४६ ॥’

सकौतुका कृतकङ्कणबन्धादिपरिणयमङ्गला ॥

व्यवहितभेदेषु व्यस्तो यथा—

‘प्रकाशो यशसा देवः प्रकाशो महसा रविः ।
दु सहो विद्विषां स्वामी दुःसहस्तमसां च सः ॥ २४७ ॥’

तदेतन्नातिदुर्बोधमिति न व्याक्रियते ॥

सोऽयमेकगुणो व्यस्तश्च लाटीयानुप्रासो व्यवहित इत्युच्यते । व्यस्तश्चानेकगुणो यथा—

‘किंचिद्वच्मि न वच्मि वच्मि यदि वा किं वच्मि वच्मीदृशं दृश्यन्ते न भवादृशेषु पतिषु स्वेषामदोषे दमाः ।