तत्रेति । नवसंगमभीर्विति संबोधनम् । भीरुशब्दादूंङ्, तस्मात्संबोधनह्रस्वे 152 रूपम् । गर्भगृहस्था108 नालोकयति चेत्तदाह—संप्रवदन्तीति । अत्र प्रतिपादमष्टौ लघवश्चत्वारो गुरव इति लघुबाहुल्ये संयोगाक्षराणामुद्रेके च ताललयवदतिव्यक्त एव द्रुतभावः ॥

  1. ‘गृहस्थो नालो’ इति पाठः