270

निरोष्ठ्यमूर्धन्यं यथा—

‘अलिनीलालकलतं कं न हन्ति घनस्तनि ।
आननं नलिनच्छायं नयनं शशिकान्ति ते ॥ २७३ ॥’

द्विस्थानचित्रेषु दन्त्यकण्ठ्यर्यथा—

‘अनङ्गलङ्घनालग्ननानातङ्का सदङ्गना ।
सदानघ सदानन्द नताङ्गीसङ्गसंगत ॥ २७४ ॥’

सदानघ अनवद्य सदैव प्रियालाभेनानन्दयुक्त । नताङ्ग्या कस्याश्चिदन्यस्याः सङ्गे संगत, तव शोभनाङ्गना कामाक्रमणप्राप्तनानारूपतया वर्तते । अतस्तामनुकम्पस्वेति सोपलम्भप्रार्थनावाक्यार्थः ॥

एकस्थानचित्रेषु कण्ठ्यैर्यथा—

‘अगा गां गाङ्गकाकाङ्कगाहकाघककाकहा ।
अहाहाङ्गखगाङ्कागगकङ्कागखगाङ्कग ॥ २७५ ॥’

गाङ्गकं गङ्गासंबन्धि जलं तस्याकः कुटिला गतिः । ‘अक अग कुटिलायां गतौ’ इति । तस्याङ्कस्य तन्मध्यस्य गाहको विलोलकः । कुत्सितमघं पापमघकं स एव काकस्तं हतवानघकक्राक्रहा । अन्ये तु विसर्गान्तं पठन्ति । तदा जहातेर्विधिरूपम् । एवंविधस्त्वं गां स्वर्गं अगाः याया इति आशंसायां भूतप्रत्ययः । कीदृशः सन् । हानं हाः न हा अहास्ताञ्जिहीते प्राप्नोतीति अहाहं तादृशमङ्गं यस्य स खगो गरुडः सूर्यो वा सोऽङ्कश्चिह्नभूतो यस्य तादृशोऽगोऽर्थान्मेरुस्तद्वर्तिनः कङ्काख्या अगखगा वृक्षनिवासिनः पक्षिणस्तेऽपि आकाकका गमनस्पृहयालवो यस्य स तथा । आस्तां तावदन्ये, पतत्त्रिभिरप्यभिनन्दितगमन इत्यर्थः ॥

स्वरचित्रेषु ह्रस्वैकस्वरं यथा—

‘उरुगु द्युगुरु युत्सु चुक्रुशुस्तुष्टुवुः पुरु ।
लुलुभुः पुपुषुर्मुत्सु मुमुहुर्नु मुहुर्मुहुः ॥ २७६ ॥’

स्वरचित्रेष्वेकादिक्रमेणोपन्यासो ग्रन्थवैचित्र्यार्थः । उरुगुं विस्तीर्णवाचम् । द्युगुरुं स्वर्वासिनामाचार्यम् । युत्सु युद्धार्थम् । ‘निमित्तात्कर्मयोगे’ इति सप्तमी । गीर्वाणभटाश्रुक्रुशुरार्ताः शरणं ययाचिरे । अत एव पुरु बहुधा तुष्टुवुः । युद्धप्रयोजन-