271 माह—मुत्सु हर्षेषु लुलुभुः । पुपुषुः पुष्टा बभूवुः । नु वितर्के । मुहुर्मुहुर्वारंर्वारं किं मुमुहुर्मोहमासादितवन्तः । यतः क्रोशनादीनामव्यवस्थेति भावः ॥

दीर्घैकस्वरं यथा—

‘वैधैरैनैरैशैरैन्द्रैरैजैरैलैर्जैनैः सैद्धैः ।
मैत्रैर्नैकैर्धैर्यैर्वैरैर्दैः स्वैः स्वैरैर्दैवैस्तैस्तैः ॥ २७७ ॥’

विधिर्विरिञ्चिः, ई लक्ष्मीस्तस्या इनः प्रभुर्विष्णुः, ईशो महादेवः, इन्द्रो वासवः, ईजः कामो लक्ष्मीपुत्रत्वात्, इला पृथ्वी, जिनो बुद्धः, सिद्धा देवविशेषाः, मित्रः सूर्यः, रैदो धनदः कुबेरः, देवा उक्तव्यतिरिक्ता मरुदादयः, एषां संबन्धिभिधैंयैंर्धृतिभिः स्वैर्वित्तैश्च नैकैरनेकविधैस्तैस्तैः प्रसिद्धरूपैरहं स्वैरैः सुष्ठु आसमन्तात्समृद्धो भवानीत्याशंसा । वै वाक्यालंकरे ॥

ह्रस्वद्विस्वरं यथा—

‘क्षितिस्थितिमितिक्षिप्तिविधिविन्निधिसिद्धिलिट् ।
मम त्र्यक्ष नमद्दक्ष हर स्मरहर स्मर ॥ २७८ ॥’

क्षितिः पृथ्वी तस्याः स्थितिः पालनं मितिर्मानं क्षिप्तिः संहारस्तद्विधिं वेत्ति । निधिसिद्धी लेढीति क्विए । नमन् भग्नतेजा दक्षो यस्मात् । स्मरहर कामदहन, त्र्यक्ष त्रिनयन, हर महादेव, मम स्मर । अधीगर्थयोगे कर्मणि षष्टी ॥

दीर्घद्विस्वरं यथा—

‘श्रीदीप्ती ह्रीकीर्ती धीनीती गीःप्रीती ।
एधेते द्वे द्वे ते ये नेमे देवेशे ॥ २७९ ॥’

श्रीदीप्ती लक्ष्मीतेजसी । ह्रीकीर्ती लज्जायशसी । धीनीती बुद्धिनयौ । गीःप्रीती वाक्प्रमोदौ । इमे ये देवेशेऽपि न स्तस्ते द्वे तव एधेते वर्धेते ॥

त्रिस्वरेषु ह्रस्वत्रिस्वरं यथा—

‘क्षितिविजितिस्थितिविहितिव्रतरतयः परगतयः ।
उरु रुरुधुर्गुरु दुधुवुः स्वमरिकुलं युधि कुरवः ॥ २८० ॥’

क्षितेर्विजितिः विजयः, स्थितेर्वर्णाश्रममर्यादालक्षणाया विहितिर्विधानं तदेव व्रतं