274

एवं चतुष्पत्त्र-षोडशपत्त्रे अपि द्रष्टव्ये ॥

न शशीशेत्यादि । शशीशे चन्द्रे नवे भावे भक्तौ । स्थित इति शेषः । त्वामहं न नमामि । काक्वा नमाम्येव । नमन् भग्नः कामो यस्मात् । नतमुपनतं व्रतं यस्य संयमिधौरेयत्वात् । माननमनं शत्रूणामुन्नतिनाशनम् । नन्विति पूजासंबोधने । त्वा इति त्वाम् । अनुनयन् विनयं कुर्वाणोऽयम् ॥ न्यासमाह—प्राक्कर्णिकामिति । पूर्वं कर्णिकायामाद्यो नकारो ग्राह्यः, ततः शेति पर्णमध्ये, शीति पर्णाग्रे, परावृत्य पर्णकर्णिकयोः शकारनकारौ, पुनः कर्णिकातो दलाग्रगमागमेऽपि । अयमेव क्रमश्चतुर्दलपद्मे ॥

तयोश्चतुष्पत्त्रं यथा—

‘सासवा त्वा सुमनसा सा नता पीवरोरसा ।
सारधामैति सहसा साहसर्ध सुवाससा ॥ २९० ॥’
कर्णिकातो नयेदूर्ध्वं पत्राकाराक्षरावलीम् ।
प्रवेशयेत्कर्णिकायां पद्ममेतच्चतुर्दलम् ॥ २९१ ॥

सासवेत्यादि । सासवा आस्वादितमदिरा । पीवरेण स्तनाढ्येनोरसा नता सारधामा उत्कृष्टकान्तिः सहसा सहास्या अकस्माद्वा श्रृङ्गारोद्दीपनस्वभावेन मार्गशीर्षेण हेतुना शोभनेन वाससा च लक्षिता हे साहसर्ध सर्वनिशीथाभिसरण साहसरसिक, त्वामेति उपगच्छतीति ॥ न्यासमाह—कर्णिकेति । सुबोधमेतदिति ॥

षोडशपत्त्रं यथा—

‘नमस्ते महिमप्रेम नमस्यामतिमद्दम ।
क्षामसोम नमत्काम धामभीम समक्षम ॥ २९२ ॥’
गोमूत्रिकाक्रमेण स्युर्वर्णाः सर्वे समाः समाः ।
मध्ये मवर्णविन्यासात्पद्मोऽयं षोडशच्छदः ॥ २९३ ॥

षोडशपत्त्रमाह—नमस्त इत्यादि । महिमनि प्रेमा यस्य तत् । नमस्य अमतिमतो दाम्यतीति अमतिमद्दम । क्षामः कलामात्रेण चूडासंगतः सोमो यस्य । नमन् भग्नः कामो यस्मात् । धाम्ना तेजसा भीम भयानक । समा सकलव्युत्थानहेतुसाधारणी क्षमा यस्य । यस्यैतानि संबोधनविशेषणानि ते तुभ्यं नमस्कुरुते