283

मुरजबन्धो यथा—

‘सा सेना गमनारम्भे रसेनासीदनारता ।
तारनादजना मत्तधीरनागमनामया ॥ ३२० ॥’
अत्र पादचतुष्केऽपि क्रमशः परिलेखिते ।
श्लोकपादक्रमेण स्याद्रेखासु सुरजत्रयी ॥ ११२ ॥

अनारता अविच्छिन्नप्रहरणव्यापारा आसीत् । मत्तधीरनागमिति क्रियाविशेषणम् । रसेन वीरेण । महाप्राणशब्दजना ॥ अत्र न्यासमाह—अत्र पादेति । अत्र पुटचतुष्ककल्पनया मुरजत्रयोन्मेषः ॥

एकाक्षरमुरजबन्धो यथा—

‘सुरानन त्वां न न हाननष्टये पुनः स्तुवेऽनर्घघनप्लवाननम् ।
मनस्यनूनव्यसनप्रधूननं सकाननस्थाननदीननर्दनम् ॥ ३२१ ॥’
श्लोकस्यैतस्य पादेषु लिखितेषु चतुर्ष्वपि ।
त्रिमृदङ्गकरीह स्याच्चतुरेकाक्षरावली ॥ ११३ ॥

सुराणां देवानामाननं मुखं तद्भूत वह्ने । हाननष्टये हानिनाशाय त्वां न न स्तुवे, किंतु स्तौम्येव । पुनरिति देवतान्तरव्यावृत्तौ स्तुत्यावृत्तौ वा । अनर्घ्ये घनौघप्राणने यस्मात् । ‘अन प्राणने’ इति धात्वनुसारात् । प्रणतानां मनसि यदनूनमनादिभवपरम्परानुपाति व्यसनं तस्य प्रधूननं प्रतिक्षेपकम् । सकाननेषु वनगहनेषु स्थानेषु नदीनस्य पयोराशेरिव नर्दनं कोलाहलो यस्येति ॥ न्यासमाह—श्लोकस्यैतस्येति । प्रथमपादस्थादक्षरादारभ्य चतुर्थपादस्थमक्षरं यावदेकजातीयाक्षरचतुष्कावलीं गृहीत्वा परावृत्य तज्जातीयानामेव चतुष्टयी गृह्यते । तेनैकमुरजोन्मुद्रणमपरत्राप्यनेनैव प्रकारेणात्रोदाहरणे एकाक्षरमुरजत्रयी भवतीति न्यासार्थः ॥

मुरजप्रस्तारो यथा—

‘तालसारप्रभा राका तारकापतिदंशिता ।
मारधाम रमाधीता वलयामास सागरम् ॥ ३२२ ॥’
क्रमेणैवास्य पादेषु प्रसृतेषु चतुर्ष्वपि ।
तुर्यान्मुरजमार्गेण श्लोकोऽयमुपजायते ॥ ११४ ॥