285 च्चोपक्रम्य द्वितीयचतुर्थपादसंदंशेन गोमूत्रिकया प्रथमद्वितीययोस्तृतीयचतुर्थयोश्च परस्परमुन्मेषणमितीयमयुक्पादगोमूत्रिका ॥
युग्मतो यथा—
महासुरजनेन ब्रह्मादिना चित्ते देयो धारणीयः । शमेनैकेन विकलीकृत इभरणो गजानामुरुयुद्धं येन । शुभं कल्मषरहितं चित्तं विधत्ताम्, अविशेषेण संसारिणामेव । अत्र पूर्ववत्समपदमुपक्रम्य विषमपादसंदंशेन समाप्तिरिति विशेषस्तेनेयं युक्पादगोमूत्रिका ॥
अर्धश्लोकगोमूत्रिका यथा—
इन्दोर्भागः खण्डं । शं कल्याणं । अमरजनता देवसमूहः । नास्त्यन्यद्धाम स्थानं यस्य सोऽनन्यधामा । स्वात्माराम इत्यर्थः । न परं देवो देवी च । भ्रुवा भ्रूक्षेपेण दुरीरन्दूरमपनयन् नोऽस्माकं देहे दमं देयादिति संबन्धः । धूतेशभामा प्रणयेनापहृतपरमेश्वरप्रणयरोषा । ‘भाम क्रोधे’ इति धात्वनुसारात् । द्युसदना देवाः । अरतमविश्रान्तं नन्दिना नता उमा गौरी । अपूर्वं धाम तेजो यस्याः ॥
श्लोकगोमूत्रिकायां प्रथमश्लोको यथा—