291 पदाधिक्यं तथाप्याद्यपदार्थानुरोधेन समुच्चीयमाननिषिध्यमानार्थानुरञ्जकत्वेन संबोध्यमानार्थानुयायितया चकारनकारयोस्तवेति च तत्पादावयवरूपा एवेति तदसत्कल्पमेव । तथा च षड्भ्यः पदत्रय उपादीयमाने सप्तदशाक्षरायां जातौ यथासंख्यानुरोधेनाद्येऽर्धे प्रस्ताररचनाक्रमेण दश विकल्पाः, तृतीयचतुर्थयोश्च पादयोस्तावन्तस्तावन्त एवेति दशभिराहतैर्दशभिः शतम् । शतेन चाहतैर्दशभिः सहस्रं तर्णकाः श्लोकाः समुत्पद्यन्त इतीयं सहस्रधेनुः ॥

अयुतधेनुर्यथा—

‘क्रिये जयसि जृम्भसे सृजसि जायसे त्रायसे स्तुषे मृषसि मृष्यसे हृषसि पीयसे प्रीयसे ।
स्तुषे मृषसि होडसे कुटसि गल्भसे क्लीबसे ह्नुषे हरसि रज्यसे रजसि राजसे भ्राजसे ॥ ३४१ ॥’
एषा तु पदविच्छेदिन्येव धेनुः क्रियापदैः ।
संबोधनाग्रगैर्दृष्टास्माभिः श्लोकायुतप्रसूः ॥ ११९ ॥

क्रिये इति । हे क्रिये कर्मन् । ‘मिष स्पर्धायाम्’, ‘पीङ् पाने’, ‘मृड सुखने’ तुदादौ, ‘होडृ अनादरे’, ‘कुड संहारे’, रज्यसे आसजसि । रजसि मत्सरयसि । राजसे शोभसे । भ्राजसे जाज्वल्यसे । एषेति । इह पृथ्वीनामनि छन्दसि षड्भ्यः संबोधनानुगे पदचतुष्टये उपादीयमाने एकादशाक्षरायां जातौ प्रस्ताराल्पत्वेन यदि वा छन्दोभेदस्य शब्देनाप्रतिपादितत्वात् तद्भेदोऽप्युदाहरणीय इति तस्यामेव रथोद्धताभिधाने छन्दसि दशसु विकल्पेषु प्रतिपादं भवत्सु दशभिः शतं शतेन सहस्रं सहस्रेण च दशसहस्राणि तर्णकाः श्लोकाः समुत्पद्यन्ते इतीयमयुतधेनुः ॥

लक्षधेनुर्यथा—

‘दुर्गे भद्रेप्सुभद्रेऽदिति सुरभिदिते सैंहिके गौरि पद्मे नित्ये हृद्ये वरेण्ये कलिकमलिकले कालिके चण्डि चण्डे ।
धन्ये पुण्ये शरण्ये शचि शबरि शिवे भैरवे राज्ञि सन्ध्ये छाये माये मनोज्ञेऽवनि जननि जये मङ्गले धेहि शं नः ॥ ३४२ ॥’