संबंन्धगूढं यथा—
अत्र न मे आगोरसाभिज्ञं चेत इति संबन्धिपदस्य मयेति तृतीयाभ्रान्त्या गोपितत्वादिदं संबन्धगूढम् ॥
पादगूढं यथा—
अत्र पूर्वार्धस्थितैर्द्वितीयप्रथमसप्तमपञ्चमैकादशनवमत्रयोदशषोडशाक्षरैश्चतुर्थपादो गूढ उत्थाप्यः । यथा—‘विद्युतामिव संहतिः’ इति । इदं पादगूढम् ॥
अभिप्रायगूढं यथा—
अत्र निरीक्षितमनेनात्र पुरुषायितलक्ष्म पादलाक्षादिकं, तेन नियुङ्क्ते मां न कर्मणीत्यभिप्रायेण वध्वाः शयनावलोकनमित्यभिप्रायगूढम् ॥
वस्तुगूढं यथा—
अत्र दास्यसीति दासीलक्षणस्य वस्तुनो गूढत्वादिदं वस्तुगूढम् ॥