310
सात्त्विकाभिनयवद्यथा—
‘वारंवारं तिरयति दृशोरुद्गमं बाष्पपूर-
स्तत्संकल्पोपहितजडिम स्तम्भमभ्येति गात्रम् ।
सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः
पाणिर्लेखाविधिषु नितरां वर्तते किं करोमि ॥ ३९८ ॥’
अत्र बाष्पजाड्यस्तम्भस्वेदकम्पानां प्रतिपादितत्वादिदं सात्त्विकाभिनयम् ॥
आहार्याभिनयवद्यथा—
‘चूडाचुम्बितकङ्कपत्त्रमभितस्तूणीद्वयं पृष्ठतो
भस्मस्तोकपवित्रलाञ्छनमुरो धत्ते त्वचं रौखीम् ।
मौर्व्या मेखलया नियन्त्रितमधो वासश्च माञ्जिष्ठकं
पाणौ कार्मुकमक्षसूत्रवलये दण्डोऽपरः पैप्पलः ॥ ३९९ ॥’
अत्राहार्याभिनयानां प्रतिपादितत्वादिदमाहार्याभिनयम् ॥
सामान्याभिनयवद्यथा—
‘राहोश्चन्द्रकलामिवाननचरीं दैवात्समासाद्य मे
दस्योरस्य कृपाणपातविषयादाच्छिन्दतः प्रेयसीम् ।
आतङ्काद्विकलं द्रुतं करुणया विक्षोभितं विस्मया-
त्क्रोधेन ज्वलितं मुदा विकसितं चेतः कथं वर्तताम् ४००’>
अत्र चतुर्णामभिनयानां प्रयोगादिदं सामान्याभिनयम् ॥
चित्राभिनयवद्यथा—
‘व्यतिकर इव भीमस्तामसो वैद्युतश्च
क्षणमुपहतचक्षुर्वृत्तिरुद्भूय शान्तः ।
कथमिह न वयस्यस्तत्किमेतत्किमन्य-
त्प्रभवति हि महिम्ना स्वेन योगेश्वरीयम् ॥ ४०१ ॥’