156

वैदर्भीति ।

वक्ष्यमाणरीत्या वैदर्भीप्राधान्यमभिप्रेत्याह—

तत्रासमासा निःशेष श्लेषादिगुणगुम्फिता ।
विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिष्यते ॥ २९ ॥

तत्रेति । असमासा अनुल्लिखितसमासा । निःशेषश्लेषादीति । श्लेषादयो नव गुणास्तैर्गुम्फिता । मिथोमिलनेन संमूर्च्छितैरनुपलभ्यमानान्यतभमात्रकैरपि परस्परविभक्तस्वरूपभावेन सहृदयहृदयसंवादगोचरैरारब्धा । एवं विपञ्चीस्वरसौभाग्या । विपञ्ची वाग्रूपा सरस्वती बिम्बप्रतिबिम्बभावेन द्विविधा । प्रतिबिम्बाधिष्ठानतया दार्वादियन्त्रमपि विपञ्चीत्युच्यते । तदीयाः स्वरास्तन्त्रीकण्ठोत्थिताः स्थानक्रमवैपरीत्यानुमेयशारीराः प्रतिबिम्बभावाः षड्जादयस्तेषु श्रुतसंमूर्च्छनरूपेष्वपि मिथोविभक्ताः श्रुतयः श्रोत्ररञ्जकस्वरावस्थामापन्नाः समस्तगान्धर्ववित्साक्षिकाः प्रकाशन्ते । अत एव वीणैव प्रधानं समस्तस्य स्वरजातस्य तत्रैव श्रुतिमण्डलोन्मेषादिति ॥

यदा तु पानकादिन्यायेन कश्चिदंश उदितो भवति तदा रीत्यन्तरमुत्तिष्ठतीत्याह—

समस्तपञ्चषपदामोजःकान्तिविवर्जिताम् ।
मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः ॥ ३० ॥

समस्तेति । ओजःकान्तिविवर्जिताम् ओजःकान्त्योर्विशेषेण वर्जिताम् । न्यग्भूतौजःकान्तिगुणामिति यावत् । यतस्तत्प्रतिद्वन्द्विनोर्माधुर्यसौकुमार्ययोस्तत्रोद्भवस्तदेतदाह—मधुरां सुकुमारां चेति । अत एवौजःप्रकाशकः षडधिकेषु पदेषु समासो न क्रियते ॥

समस्तात्युद्भटपदामोजः कान्तिगुणान्विताम् ।
गौडीयेति विजानन्ति रीतिं रीतिविचक्षणाः ॥ ३१ ॥

समस्तेति । अत्युद्भटानि सोल्लेखसमासानि यस्मादोजःकान्त्योरुद्भवे न्यग्भूतगुणसप्तकेयं रीतिः ॥

अन्तराले तु पाञ्चालीवैदर्भ्योर्यावतिष्ठते ।
सावन्तिका समस्तैः स्याद्द्वित्रैस्त्रिचतुरैः पदैः ॥ ३२ ॥

अन्तराल इति । माधुर्यसौकुमार्ययोः किंचिदुद्भवेन निमीलनाङ्गप्राधान्येन वान्तरालकल्पना तां व्यनक्ति—द्वित्रैरिति । द्वे त्रीणि वा त्रीणि चत्वारि वेति वार्थे बहुव्रीहिः ॥