166

सेयमुत्तमपदारोपितनीचयुवत्युक्तेरनुकृतिः पोटोक्तिच्छाया ॥

उत्तमपदस्थानीययुवतिमनुकुर्वाणा उत्तमपदारोपितनीचयुवतिः ॥

मत्तोक्तिच्छाया यथा—

‘पि पि प्रिय स स स्वयं मु मु मुखासवं देहि मे त त त्यज दु दु द्रुतं भ भ भ भाजनं काञ्चनम् ।
इति स्खलितजल्पितं मदवशात्कुरङ्गीदृशः प्रगे हसितहेतवे सहचरीभिरध्यैयत ॥ ४२ ॥’

सेयं स्खलन्त्या मत्तोक्तेरनुकृतिर्मत्तोक्तिच्छाया ॥

पि पि प्रियेति । अव्यक्तवृत्तिरूपं स्खलितजल्पितम् ॥

साभिप्रायस्य वाक्ये यद्वचसो विनिवेशनम् ।
मुद्रां तां मुत्प्रदायित्वात्काव्यमुद्राविदो विदुः ॥ ४० ॥

साभिप्रायेति । यद्यपि संपूर्णमेव काव्यं वक्त्रभिप्रायप्रतिच्छन्दकभूतम्, उक्तं च—‘वक्रभिप्रायं सूचयेयुः’ इति, तथापि नास्मिन्नितरसाधारणतया वाक्यार्थगोचरमभिप्रायमावेदयत्येव काव्यसनाथीकरणक्षमवक्रभिप्रायविशेषप्रतिरूपक एकदेशनिवेशो दृश्यते । अत एवाङ्गुलीयादिमुद्रेव मुद्रेत्युच्यते । निरुक्तिमाह—मुत्प्रदायित्वादिति । मुद्युपपदे रातेर्दानकर्मणः के रूपम् । मुद्रैव पदादिप्रकाश्यध्वनिव्यवहारभूमिरन्येषाम् ॥

सास्मिन्पदस्य वाक्यस्य विभक्तेर्वचनस्य च ।
समुच्चयस्य संवृत्या षोढा न्यासेन जायते ॥ ४१ ॥

सास्मिन्निति । पदं प्रातिपदिकं कृत्तद्धितसमासरूपम् । विभक्तिवचनयोः सामान्यविशेषभावेऽपि पृथक्पृथगभिप्रायव्यञ्जकतया निर्देशः । आस्तामित्यादिवचनसंकोचः संवृतिः ॥

तासु पदमुद्रा यथा—

‘निर्माल्यं नयनश्रियः कुवलयं वक्रस्य दासः शशी भ्रूयुग्मस्य सनाभि मन्मथधनुर्ज्योत्स्ना स्मितस्याञ्चलः ।