170

संवृतिमुद्रा यथा—

‘मणिरत्नं प्रसेनस्य तच्चानार्येण विष्णुना ।
लब्धं येनाद्ययोगेन तेन किं कीर्तितेन वः ॥ ४८ ॥’

अत्र ‘कथापि खलु पापानामलमश्रेयसे यतः’, ततः ‘किं तेन वः कीर्तितेन’ इति साभिप्रायसंवृतिकरणादियं संवृतिमुद्रा ॥

विधिद्वारेण वा यत्र निषेधेनाथ वा पुनः ।
प्रतीयते विशिष्टोऽर्थः सोक्तिरत्राभिधीयते ॥ ४२ ॥

विधीति । उक्तिरभिधा । सा द्वयी भावाभावविषयत्वात् । तर्हि गोरपत्यमयं गौरित्यतः को भेद इत्याशङ्क्य विधिद्वारेण वेत्यादि । भावज्ञानं विधिरभावज्ञानं निषेधः । लोके गृहीतव्युत्पत्तिबलेन भावाभावान्यतरसंवित्सरणिमारुह्य काव्यैकगोचरे रसाद्यात्मनि पर्यवस्यन्ती भवत्युक्तिरलंकार इति भावः ॥

सोऽयं भावादिप्रपञ्चेन षोढा विधिः प्रथत इत्याह—

विधेरथ निषेधात्स्यादधिकाराद्विकल्पतः ।
नियमात्परिसंख्याया उपाधेः सेह षङ्विधा ॥ ४३ ॥

विधेरिति । उपाधिर्विशेषणम् । विध्यधिकारौ शुद्धभावभेदौ । निषेधनियमौ शुद्धप्रतिषेधभेदौ । विकल्पपरिसंख्ये संकीर्णभेदाविति । तत्राप्राप्तप्रापणो विधिः । प्रसक्तप्रतिषेधो निषेधः । क्रियाफलसंबन्धोऽधिकारः । तुल्यकक्षयोरेकबाधेनान्यसंबन्धो विकल्पः । व्यावृत्तिफलको विधिर्नियमः । शेषविधिनिषेधनान्तरीयकौ विशेषनिषेधविधी परिसंख्या ॥

तासु विध्युक्तिर्यथा—

‘शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने’

अत्राप्राप्तौ प्रापणवचनं विधिः ॥

अप्राप्तौ प्रापणवचनमिति । अप्रवृत्तप्रवर्तनात्मको हि विधिः कथमितरापेक्षत्वे संगच्छते । अत एवोच्यते—‘विधिरत्यन्तमप्राप्तौ’ इति ॥

निषेधोक्तिर्यथा—

‘भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।’