अयुज्यमानस्येति । पूर्वं पदैकवाक्यता ततो वाक्यैकवाक्यत्वमनन्तरं प्रकरणैकवाक्यत्वमिति प्रबन्धनिर्वहणं यावत्कविव्यापारः । तत्र ‘गामभ्याज शुक्लां दण्डेन’ इत्यादीनां लोके गृहीतव्युत्पत्तीनामेव यद्यपि काव्यानुप्रवेशस्तथापि भङ्गीभणितिसनाथान्येव काव्यपद्धतिमध्यासत इत्यप्रहतानामुपादेयत्वे यत्रापाततः परस्परमन्वयो न प्रतिभासते तत्रावश्यं कविना स्वाभिप्रायप्रतिच्छन्दकभूतविशेषनिवेशनेन विवक्षितवाक्यार्थप्रतीत्यस्खलनं विधेयम्, अत एव वैचित्र्यादलंकारता । तदिदमुक्तम् —अयुज्यमानस्येति । आपातत इति शेषः । योजना अन्वयौपयिकरञ्जकविशेषनिवेशनं तस्य विषयः । शब्दाथा शब्दः पदं वाक्यं प्रकरणं प्रबन्धः । अर्थः पदार्थो वाक्यार्थश्च ॥

विषयभेदात् षोढा युक्तिरित्याह—