विशेषभणितिर्यथा—
अत्र रेवतीदशनोच्छिष्टयोरपि हलिदृशोर्यत्पूतत्वं, मदक्षीबस्यापि हलिनो यत्पावनत्वमसौ विशेष इतीयं विशेषभणितिर्निषेधे विधिरूपा ॥'
रेवतीति । दशनोच्छिष्टं चुम्बितम् । उच्छिष्टक्षीबयोर्न क्वचित्पूतत्वं पावनत्वं वा दृष्टचरमिति हलिनेत्रपुटहलिनोर्विधीयमानं देवताचरितस्य लोकोत्तरतां गमयतीति निषेधप्रसङ्गे विधिरूपेयं भणितिः ॥
संवृत्तिभणितिर्यथा—
अत्र प्रसिद्धवर्णनाप्रपञ्चविधेराभरणस्याभरणं वपुरित्यादिवाक्यैः संवरणादियं संवृत्तिभणितिर्विधौ निषेधरूपा ॥
आभरणस्येति । अत्र चन्द्रमुखी दुग्धधवलनयना बिम्बोष्टी करिकुम्भस्तनीत्यादिकविसमयप्रसिद्धवर्णनाप्रपञ्चप्रसङ्गे यथोक्तरूपेण तस्य संकोचो निषेधस्तत्प्रतिष्ठाभणितिरलंकरणमेवानया क्रियत इति कान्तिविशेषं व्यञ्जयन्ती विधौ प्रसक्ते निषेधरूपा भवति ॥
आश्चर्यभणितिर्यथा—
अत्र ज्योतिःप्रभृतिभ्यस्तमःप्रभृतीनामुत्पत्तेराश्चर्यरूपत्वादियमाश्चर्यभणितिर्निषेधविधौ विधिनिषेधरूपा ॥
ज्योतिर्भ्य इति । प्रियो हि नाप्रियमाचरतीत्युत्सर्गसिद्धाप्रियानाचरणं दैव-