1

॥ अवयविनिराकरणम् ॥


78b

॥ नमो लोकनाथाय1


अभ्यासातिशयस्तथा न विहितस्तादृक् श्रुतं नार्जितं

तन्मे चापलमर्थलेशमधुना निर्मातुमीहे यदि ।

एतत् सर्वमवेक्ष्य यन्निगदितं तत् पण्डितैर्दृश्यतां

प्रीणन्त्येव विचेष्टितानि2 हि शिशोः प्रायः पितॄणां मनः ॥

यो विरुद्धधर्माध्यासवान् नासावेकः । यथा घटादिरर्थः । विरुद्धधर्मा
ध्यासवांश्च स्थूलो नीलादिरर्थ इति व्यापकविरुद्धोपलब्धिः । इह3 दृश्य
मानः स्थूलो नीलादिरर्थो धर्मी । स चानुभवावसितोऽसति बाधके प्रत्यक्ष
सिद्धो हेतोराश्रयासिद्धिं निहन्ति ।


ननु भवद्भिरसन्नेवावयवी प्रतिज्न्ँआयते, स कथं प्रत्यक्षसिद्धः ? नावय
विनमिह धर्मिणं प्रतिपन्नाः स्मः, किं तु प्रतिभासमानं स्थूलनीलादिक
मर्थम् । न तर्हि विरुद्धधर्मसंसर्गादवयविन एकत्वं प्रतिषिद्धं4 स्यात् ।


यद्येवं कस्तर्हि भवतोऽवयवी ? एकोऽनेकावयवसमवेतोऽर्थ इति
चेत् ? स किं प्रतिभासमानात् स्थूलनीलादेरन्योऽनन्यो वा ? न तावदन्यः,
दृश्यत्वेनाभ्युपगमात् । न च प्रतिभासमानस्थूलनीलार्थव्यतिरेकेणापरः
प्रतिभाति । अनन्यश्चेत् ? तस्यैकत्वप्रतिक्षेपे कथमप्रतिषिद्धमेकत्वमव
यविनः ?


ननु च प्रतिभासमानश्चेदर्थो नावयविरूपो धर्मी, किं तर्हि रूपमस्या
विशिष्टं प्रसिद्धं5 भविष्यतीति ? उच्यते । प्रतिभासमानः स्थूलो नीलाकारः
प्रत्यक्षसिद्धं रूपम् अवयवित्वानभ्युपगमेऽप्यवशिष्यते । न चैवं मन्तव्यम् ।
न परमाणुसंचयवादिनां स्थूलाकारः कश्चिदर्थोऽस्ति, यः प्रसिद्धो धर्मी
स्यादिति । अवयव्यनभ्युपगमेऽपि हि निरवयवानेकात्मकः स्थूलोऽर्थोऽभ्युपगम्य
मानः केन निषिद्धः ?


2

स्यान्मतम्, निरवयवाः परमाणवः कथं प्रत्यक्षे स्थूलेनाकारेणाव
भासेरन्, स्थूलसूक्ष्मयोर्विरोधादिति ? तदपि न युक्तम्, परमाणव एव हि
पररूपदेशपरिहारेणोत्पन्नाः परस्परसहिता अवभासमाना देशवितानवन्तो
भासन्ते । विततदेशत्वं च स्थूलत्वम् ।


यत् तूक्तम्, स्थूलसूक्ष्मयोर्विरोध इति, तत् किं पररूपदेशपरिहारवती
निरवयवानामुत्पत्तिः, परस्परसहितानामेकविज्न्ँआनावभासित्वं 6वाविरुद्धमिति
वक्तुमध्यवसितम् ।


इदं चेदविरुद्धम्7, स्थूलाकारः किं विरुद्धः ? अतएव निरवयवेषु
बहुष्वेकस्मिन् विज्न्ँआने प्रतिभासमानेषु भवन् प्रतिभासकालभावी प्रतिभास
धर्मः स्थूलाकारो न तु वास्तवः, प्रत्येकमभावात् । प्रतिभासात् प्राग् उर्ध्वं
वा न तर्हि स्थूल इति चेत्--न, तदापि प्रतिभासयोग्यतासं79a
भवात् । यदैव हि संचिता भवेयुः, तदैव प्रतिभासयोग्याः परमाणवः । यदा
च प्रतिभासयोग्यास्तदा स्थूलाः ।


यस्त्वाह निरवयवेषु बहुषु प्रतिभासमानेष्ववश्यमन्तरेणापि प्रति
भासितव्यम् । अन्तरानवभासे परस्परविविक्ता एव नावभासिताः स्युः ।
विविक्तानवभासे चाणुमात्रकं पिण्डो भवेत् । न चान्तरमवभासमानमुत्प
श्यामः । तदयं निरन्तर एक एव स्थूलो न8 निरवयवानेकात्मको भवितु
मर्हति, अपि त्वेकः स्थूलात्मक एवेति । सोऽप्येवं वाच्यः । किं विजातीय
परमाण्वन्तरमन्तरम्, आहोस्वित् शून्याकाशयोगः ? तत्र शून्याकाश
योगस्तावदवस्तुतया नेन्द्रियप्रत्यक्षगोचरः, अर्थसामर्थ्यभाविनि तत्रार्थस्यैव
प्रतिभासोपपत्तेः । विजातीयं त्विन्द्रियान्तरग्राह्यं कथमिन्द्रियान्तरज्न्ँआने
अवभासेत, अविषयत्वात् ? तत्र केनान्तरेणावभासितव्यमिति न विद्मः ।


यत् पुनरुच्यते, अन्तरालानवभासे विविक्ता नावभासेरन्निति, तत्रापि
किमेषामन्तरं विवेकः पररूपशून्यता वेति चिन्त्यम् । निरूपयन्तस्तु पररूप
शून्यतामेव विवेकं वस्तूनां पश्यामः । पररूपशून्याश्चेमे भासमानाः कथं
विविक्ता नावभासेरन्निति ?



3

ननु च न प्रत्येकं परमाणूनां स्थूलाकारः, ततः समुदितानामेष्टव्यः ।
यथा च नीलपरमाणूनां प्रत्येकमसंभवन् पीताकारो बहुष्वपि न दृश्यते,
तथा प्रत्येकमसंभवन् स्थूलाकारः कथं बहुषु स्यादिति ?


उक्तमत्र, अविरुद्धो निरवयवाणां स्थूलाकार इति । नीलविरुद्धस्तु
पीताकारः । ततः पीतविरुद्धं नीलाकारं विभ्राणेषु बहुष्वपि कथं पीताकारो
भवेत् ? नैवं निरवयवत्वविरुद्धः स्थूलाकारः, यथोक्तन्यायात् । तदेवं
प्रत्यक्षसिद्धः स्थूलोऽर्थ इह धर्मीति व्यवस्थितम् ।


तदेवं व्यवस्थिते9 धर्मिणि हेतोः सत्त्वमसत्त्वं वा निरूप्य10 तत्र पाण्या
दावेकस्मिन् कम्पमाने स्थूलोऽर्थः सकम्पनिष्कम्पे रूपे युगपत् प्रतिपद्यमानः
कथं विरुद्धधर्मसंसर्गवान् न स्यात् ? सकम्पनिष्कम्पयोर्हि रूपयोः परस्परा
भावाव्यभिचारनिमित्तकोऽस्ति विरोधः । भावाभावयोरेव हि परस्पर
परिहारात्मको विरोधः । वस्तुनोस्तु तदभावाव्यभिचारेणैव । इह च सकम्प
निष्कम्पे रूपे गृह्णत् प्रत्यक्षमेव सामर्थ्यात् परस्पराभावं साधयति ।
व्यवहारयति तु निर्विशेषणैवानुपलब्धिः ।


स्यादेतत् । पाण्यादावेकस्मिन्नवयवे कम्पमाने नावयविनः कम्प
79b रूपमभ्युपेयम् । अवयव एव हि तदा क्रियावान् दृश्यते । न चेदं
मन्तव्यम्, अवयवे क्रियावति तदाधेयेनावयविनापि क्रियावता भवितव्यम्,
यथा रथे चलति तदारुढोऽपि चलतीति । अवयवावयविकर्मणोर्भिन्ननिमित्त
त्वात्, निमित्तायौगपद्याच्च ।


यदा हि आत्मनः पाणिकम्पनेच्छा भवति, ततः प्रयत्नः, तदा
प्रयत्नवदात्मपाणिसंयोगात् पाणौ क्रिया । यदा तु शरीरकम्पनार्थः प्रयत्नविशेष
आत्मनो जायते, तदा तत्प्रयत्नवदात्मशरीरसंयोगात् शरीरे कर्मेति निमित्त
भेदः । अतो 11भिन्ननिमित्तयोरेकस्मिन् जाते कथं निमित्तान्तरप्रतिबद्धजन्मा
तदभावे तदपरोऽपि तथैव जायेत ? रथतदारुढकर्मणोस्तु सत्यपि निमित्त
भेदे निमित्तयौगपद्यात् सहभावः ।


तथा हि नोदनं रथकर्मणीऽसमवायिकारणम्, तदारुढकर्मणस्तु नोद्य
संयोगः । तयोश्च सहभावात् कर्मणी अपि यौगपद्येन जायेते । तदेतत्
4 सकलमालोच्य भदन्तधर्मोत्तरेण इदमुक्तम्--न चात्रावयवः क्रियावान् ।
अवयवेषु हि क्रियावस्तु विभागो जायते, क्रियाया विभागारम्भं प्रति निरपेक्ष
कारणत्वात् । तेन च संयोगेऽसमवायिकारणे 12निवर्तिते निवर्तेतावयवि
द्रव्यमिति ।


इदमाहुरत्र कणादशिष्याः--नोदनादभिघाताद्13 वा जायमानः क्रिया
विशेषो द्रव्यारम्भकसंयोगप्रतिद्वन्द्विविभागारम्भको दृष्टः । अन्यत् तु विभाग
मात्रमारभते, न तु यथोक्तविशेषम् । अन्यस्मिन् पद्मसंकोचविकाशादिके
कर्मणि अवयवसंयोगनिवृत्तेरदर्शनात् । तद्वत् प्रयत्नजन्यस्यापि कर्मणो
नास्ति संयोगनिवर्तनसामर्थ्यम् । ततो नास्ति द्रव्यनिवृत्तिरिति ।


अयमत्र समाधिः । इहावयविनि क्रियावति नियमेनावयवैरपि क्रिया
वद्भिर्भवितव्यम् । अन्यथावयवसंसृष्टेभ्य आकाशदेशेभ्यो विभागोऽवयवासं
सृष्टैश्च संयोगोऽवयविनः क्रियावतः स्यात् । अवयवास्तु क्रियाविरहिणः
पूर्वाक्रान्तेभ्यो नभोदेशेभ्यो नापसर्पेयुः । अवयविसमाक्रान्तैश्च देशैर्नाभि
संबध्येरन् ।


न चावयविसंयोगविभागाभ्यामवयवसंयोगविभागौ वाच्यौ, कार्य
संयोगविभागयोः कारणसंयोगविभागौ प्रति निमित्तभावानभ्युपगमात् ।
कारणसंयोगविभागावेव हि कार्यसंयोगविभागावारभेते ।


न च विपर्ययः, सिद्धान्तहानिप्रसङ्गात् । तेनावयवावयविनां पृथग्देश
त्वात् 80a आधार्याधारभावहानौ समवायोऽपि न व्यवतिष्ठेत । तस्माद्
अवयविनि क्रियावति अवयवाः क्रियावन्तः इत्यकामकैरपि वैशेषिकैः इदमभ्यु
पेयम् । यथा चावयविक्रियायामवयवाः क्रियावन्तः, तथा अवयवेष्वपि
क्रियावत्सु तदवयवैः क्रियावद्भिर्भाव्यमिति । अनया दिशा द्व्यणुके क्रिया
वति तदारम्भकौ परमाणू क्रियावन्तौ मन्तव्यौ ।


अतश्चलावयवसंबन्धिनश्चलाः परमाणवः । निष्क्रियावयवसंबन्धि
नस्तु निष्क्रियाः । परमाणुक्रियायां तदारब्धमपि द्व्यणुकद्रव्यं क्रियावत्
प्रसज्येत, सर्वावयवक्रियायाः कार्यक्रियाविनाभूतत्वात् ।


5

एकस्य परमाणोः क्रिया न परस्येति चेत् ? सक्रियनिष्क्रियौ तर्हि
परमाणू परस्परं विभज्यमानावुज्झितद्रव्यारम्भकसंयोगौ स्याताम् । ततश्च
द्रव्यनाशः । एवं च द्व्यणुकद्रव्यस्य क्रियावत्त्वे त्र्यणुकेऽपि क्रिया स्यादित्यनेन
क्रमेण परिदृश्यमानोऽचलश्चलः स्यादवयवः । तस्मात् निष्क्रियावयवसंब
न्धिनो निष्क्रियाः परमाणवः चलावयवसंबन्धिभ्यश्चलेभ्यो विभज्यमाना
द्रव्यारम्भकसंयोगविनाशवन्तः स्युः । निरवयवो हि परमाणुर्यमणुमात्रनभो
देशमाक्रम्य परमाण्वन्तरेण संयुज्यते, ततो विभज्यमानः कथमनुज्झित
परमाण्वन्तरप्रत्यासत्तिकः स्यात् ? सावयवो हि भाव एकेनावयवेन वस्त्व
न्तरसंयुक्त एवावयवान्तरैश्चलैः पूर्वाक्रान्तान् नभोदेशान् विरहथ्य देशा
न्तरमाक्रामेत् । निरवयवेषु त्वत्यन्तमस्तमितेयं कथेति युक्तं द्रव्यनाशप्रसङ्गम्
उत्पश्यामः ।


अथ वान्यथायं विरुद्धधर्मसंसर्गः । तथा ह्यावृते एकस्मिन् पाण्यादौ
स्थूलस्यावृतानावृते रूपे युगपदुद्भवन्ती विरुद्धधर्मद्वयसंयोगमस्यावेदयतः ।
न चानावृतैकरूप एवायमिति शक्यं वक्तुम्, अर्द्धावरणेऽपि अनावृतस्य
पूर्ववद् दर्शनप्रसङ्गात् ।


14तदवयवदर्शनायत्तोपलब्धेः तददृष्टावस्यादृष्टिरिति चेत् ? अदृष्टिरेव
तर्हि अस्यास्तु, न तु दृष्ट्यदृष्टी ।


नन्वस्त्येवावयविदर्शनमवयवावरणेऽपीति कोऽयं प्रसङ्गः ? एवं तर्हि
स्थूलः प्राग्वदुपलभ्येत ।


इदमत्राह कश्चित् । भूयोऽवयवेन्द्रियसन्निकर्षसहायोऽवयवीन्द्रियसन्नि
कर्षः स्थूलोपलब्धेर्निमित्तम् । न चार्द्धावरणे भूयसामवयवानामस्तीन्द्रिय
सन्निकर्षः । ततो न स्थूलग्रहणमिति ।


सोऽप्येवं प्रष्टव्यः । किं स्थूलो नामावयविनोऽन्यः ? स ए वानेक
व्यापी स्थूलः ? तत्र यद्यवयव्येव स्थूलः, तदा 80b तद्ग्रहणे कथं न
स्थूलग्रहणमिति चिन्त्यम् ।


अथ स्थूलत्वाख्यः परिमाणविशेषो गुणः, 15स च द्रव्यादन्य एवेति
चेत् ? एवं तर्हि परिमाणरहितमेतद्16 द्रव्यमुपलभ्यते । न त्वस्यान्येनान्येन
6 परिमाणेन योगः । न चास्यानेकपरिमाणकल्पनापि साध्वी, युगपत् सर्वेषा
मनुपलब्धेः । न च 17दृश्यस्य दर्शननिवृत्तिर्युक्ता ।


अवयवस्यैव तत् परिमाणमुपलभ्यत इति चेत् ? यद्येवं स एव तर्हि
अवयवः स्वेन परिमाणेन संबद्धः प्रत्यक्षोऽस्त्वावरणकाले नावयवी ।


स्यादेतत् । एकार्थसमवायाद् भ्रान्तिनिमित्तादवयव्येवावयवपरिमानेन
संबद्धः प्रतिभातीति, तदपि न शोभनम् । द्वयोः समपरिमाणयोरवयवावय
विनोः प्रतिभासप्रसङ्गः । यस्य हि महतोऽवयवस्य तत् परिमाणम्, स
तावत् स्वेन परिमाणेन संबद्धः प्रतिभाति । अवयविनश्च तत्परिमाण
संबन्धप्रतिभासाभ्युपगमे द्वयोः समपरिमाणयोरवयवावयविनोः प्रतिभास
आसज्यते ।


न चास्ति यथोक्तः प्रतिभासः । परिमाणरहितः सोऽवयवः प्रतिभासत
इति चेत् ? स्यादेतत् । यस्यावयवस्य परिमाणेनावयवी संबद्धः प्रतिभाति
स स्वं परिमाणं परित्यज्याभातीति । इदमपि परिमाणविरहिणोऽवयवस्या
दृष्टेरशक्यं कल्पयितुम् । एकार्थसमवायाच्च भ्रान्तिनिमित्तादल्पतरावयव
परिमाणवानप्यवयवी प्रतिभासेत । न च बाधकमन्तरेण भ्रान्तिरपि शक्या
व्यवस्थापयितुम् ।


अस्तु तर्हि स्थूलोऽवयव एव प्रत्यक्षः । 18एवमावरणकाले इवाना
वरणावस्थायामपि स्थूलतरोऽवयवः प्रत्यक्षोऽस्तु, परमध्यवर्तिनामवयवाना
मिन्द्रियसन्निकर्षाभावे स्थूलतमावयविदर्शनानुपपत्तेः । स्यान्मतं निखिलावयव
दर्शन न स्थूलप्रत्यक्षकारणम्, किं तु भूयोऽवयवदर्शनमिति ।


इदमपि न सम्यक् । अभिमुखावस्थितस्य हि पर्वतादेरर्वाचीनावयव
दर्शने न तथा स्थूलप्रतिपत्तिः, यथा अर्वाक्परमध्यवर्तिनां दर्शने । ततो न
यावत् निरवशेषावयवदर्शनम्, तावत् कथं स्थूलतमार्थप्रतिपत्तिः स्यात् ?
न चावयवा अर्वाक्परमध्यवर्तिनो युगपद् दृश्यन्ते । तत् कथमवयवी स्थूलो
दृश्येत ?


क्रमेण दिशामवयवानां प्रत्यक्षीकरणे प्रत्यक्षः स्थूलोऽवयवीति चेत् ?
अन्यदा तु कः प्रत्यक्ष इति विमृष्यम् । अवयव इति चेत् ? अवयवा
7 अपि परमध्यवर्तिनो न युगपद् दृश्यन्त इति कथं सोऽपि प्रत्यक्षः
स्यात् ? तदेवं नावयवी नावयवाः प्रत्यक्षा इति न किन्ँचिद् दृश्येतेति ।
तत् 81a सिद्धमावृतानावृतरूपः स्थूलोऽर्थ इति ।


तथा रागारागाभ्यां विरोधः संभावनीयः । तथा ह्येकस्मिन् 20रक्ते
स्थूलोऽर्थो रक्तारक्ते रूपे युगपत् प्रतिपद्यमानो विरुद्धरूपद्वययोगमात्मनः
प्रकाशयति । ननु अवयव एव रक्तोऽवयवी त्वरक्तैकरूप एवेति । यद्येवं
रक्तेऽवयवेऽरक्तरूपोऽवयवी दृश्येत । न चैवम् । अथ वा रागद्रव्यसंयोगो
हि रक्तत्वम् । अवयवस्य च रागद्रव्येण संयोगेऽवयविनोऽपि तेन भाव्यम्,
अवश्यं हि कारणसंयोगिना कार्यमपि संयुज्यत इति समयात् ।


यस्त्वाह--रक्त एवावयवी । अस्ति हि कुङ्कुमारक्ते पटावयवे
कुङ्कुमारक्तः पट इति प्रत्ययः । ततो रागद्रव्यसंयुक्त एवावयवीति
तस्यापि वर्णान्तरानवभासः स्यादवयविनः । रागद्रव्यं हि प्रत्यासीदत् निज
रूपं वस्तुनस्तिरोधत्ते । स्वेन च रूपेण द्रव्यं संबध्नाति । यथा रक्तोऽवयवः
तिरोहितसहजरूपो रागद्रव्यसमवायिना रूपेण संबन्धी प्रतिभाति । अवय
विन्यपि रागद्रव्यसंयोगिनि वर्णान्तरानवभासप्रसङ्गो दुर्वारः । तन्न रक्त
एवावयवीति शक्यं वक्तुम् ।


अन्यस्तु संयोगस्याव्याप्यवृत्त्या समाधत्ते । स ह्याह, शब्द इवाव्याप्य
वृत्तिः संयोगः । तेनैकार्थो रक्तश्चारक्तश्च । सोऽप्येवं पर्यनुयोज्यः,
कथमव्याप्यवृत्तिः ? यदि हि स्वाश्रये समवेतो रूपादिवद् व्याप्यवृत्तिरेवायम्,
असमवेतश्चावृत्तिरेवाप्यद्रव्येष्विव गन्धः ।


एकत्र संयोगस्य भावाभावाव्यापिनी21 वृत्तिरिति चेत् ? स्यादेतत् ।
यथा विरुद्धावपि रूपरसावेकमाश्रयेते, तथा संयोगस्याप्येकत्र भावाभावौ
युगपत् स्याताम् ।


अहो मोहविजृम्भितम् । अभावो हि भावनिवृत्तिरूपः, नास्य भाव
निवृत्तिं हित्वा रूपान्तरमीक्ष्यते । यश्च यन्निवृत्तिरूपः स कथं तस्मिन् सत्येव
भवति, भावे वा तन्निवृत्तिरूपतां जह्यात् ? तथा हि अनलं पश्यन्नपि
सलिलार्थी तत्र प्रवर्तेत । जलविविक्तस्यानलस्य दर्शनात्, जलाभावसिद्धेः
8 अप्रवृत्तिरिति चेत् ? भवतु अनुपलम्भात् जलाभावसिद्धिः, तथापि जलसत्तां
संभावयन् जलार्थी प्रवर्तेत ।


ननु तत्र यदि जलं स्यात्, उपलभ्येत । किमतः ? अतोऽनुपलम्भाद्
अभावो जलस्येति । यद्यप्यभ्युपगतैव जलाभावसिद्धिः, तथापि तदर्थिनस्त
द्भावशङ्कया प्रवृत्तिः स्यात् । युगपदेकत्र संयोगस्य भावाभावौ दृश्येते । तेनैवं
कल्पयामो न स्वेच्छया ।


ननु किमभावो भावप्रतिषेधात्मकः प्रतीयते, अन्यथा वा ? तत्र भावनि
वृत्तिरूपे81b ऽभावे सिद्धे कथं भावोपलब्धिर्न भ्रान्ता स्यात् ? भावाप्रतिषेधा
त्मकश्च नाभावः । नाममात्रं तु स्यात् । न च नाममात्रादर्थस्य तथाभावः ।
रूपरसयोस्तु न परस्परनिवृत्ती रूपमिति कथं तदुदाहरणमिह शोभेत ?
न च रूपरसयोरेकत्र समवायोऽस्माभिरनुमन्यते । शब्दोऽप्येवमेवाव्याप्य
वृत्तिरसिद्धः । स कथं प्रकृतसंशयनिवृत्तये कल्प्येतेति ? अलं बहुलापितया22


अथ वा स्थूलोऽर्थस्तदतद्देशः23 प्रतीयते । 24तदतद्देशयोश्च परस्परा
भावाव्यभिचारनिमित्तोऽस्ति विरोधः । अतो विरुद्धधर्मसंसर्गः स्थूलस्य ।


स्यादेतत् । कथं तदतद्देशयोः परस्पराभावाव्यभिचारः ? उच्यते,
इह तावदेकस्मिन् देशे परिच्छिद्यमाने ताद्रूप्यप्रच्युतिरस्य व्यवच्छिद्यते,
तदव्यवच्छेदे तत्परिच्छेदाभावप्रसक्तेः । प्रच्युतिवच्च प्रच्युतिमदपि देशान्तरं
व्यवच्छिद्यते । यदि हि परिच्छिद्यमानो देशान्तरस्वभावो भवेत्, तदा
तद्रूप एवोपलब्धो भवेत् । देशान्तररूपं तु विरहय्य स्वेन रूपेण प्रकाशमानो
देशो देशान्तरासंसृष्ट इत्यवसीयते । यथा च देशस्य देशान्तरासंसर्गः,
तथा तेनाधारभूतेन देशेन यद् व्याप्तं रूपं तदपि देशान्तरसंसर्गादवच्छिन्नं25
भवति । कथं हि तेन देशेन व्याप्तं रूपं तदभाववति देशान्तरे वर्तेत, यथा
एकेन देशेन व्याप्तो घटो न देशान्तरे वर्तते ?


देशान्तरेऽनुपलम्भादप्रवृत्तिरिति चेत् ? विप्रकृष्टे देशान्तरे कथमस्या
भावः प्रतिपत्तव्यः ? तस्मादिदमकामकेनापि वाच्यम्, यदुत एकदेशव्याप्तं
रूपं न देशान्तरे वर्तत इति, तस्य तेन व्यापनप्रसङ्गात् ।


9

तदभावति देशान्तरे वर्तमानोऽपि तेन देशेन व्याप्येत । न च व्याप्ति
रस्य शक्यावसातुम्, भागान्तरासंभवात् ।


एतेन तन्निरस्तं यदाह कश्चित्--यथैको भावस्तदतद्देशं जनयन्न
विरुध्यत इति, तदपि न प्रकृतानुरूपम् । तथा हि भावाभावावेव26 परस्पर
परिहारेण विरुद्धौ न वस्तुनी । वस्तुनोस्तु परस्पराभावाव्यभिचारेण
विरोधः । तेन यदेव वस्तु वस्त्वन्तरप्रच्युतिमत्, तदेव तेन विरुद्धम् ।


न चैककार्यनिर्वर्तनशक्तिः कार्यान्तरशक्त्यभावाव्यभिचारिणी । अनुप
लम्भो हि वस्तुनो वस्त्वन्तराभावाव्यभिचारं साधयति । एककार्यनिर्वर्तन
शक्तिमति च रूपे गृह्यमाणे कार्यान्तरनिर्वर्त्तनशक्तिरपि परिच्छिद्यत इति
कथं तदभावः ? एकदेशसंबद्धं तु रूपं देशान्तरसंसर्गिरूपपरिहारेणोपलभ्य
मानं 27तदभावाव्यभिचारि तेन विरुद्धम् । यथात्यन्तसदृशोर्वस्तुनोर्युगपद्
82a उपलभ्यमानयोः सत्यपि 28चाकारभेदे दूरादनुपलक्ष्यमाणभेदयोर्देश
भेदमात्रनिमित्तकं प्रत्यक्षावसितं29 विरोधमाश्रित्य भेदोऽवस्थाप्यते ।


यस्त्वाह--यथैकं चक्षुर्विज्न्ँआनं भिन्नेषु चक्षुरादिषु वर्तते तदधीनोत्पाद
तया, तथान्योऽपि 30भिन्नदेशनिवृत्तिर्न भेत्स्यत इति, सोऽपि देशभेदनिमित्ते
विरोधे अवस्थाप्यमाने वस्तुनः कारणभेदनिमित्तं विरोधमासन्ँजयन्
न नैपुण्यमात्मनो निवेदयति । न हि विज्न्ँआनस्य देशोऽस्ति कश्चित्,
अमूर्तत्वात् ।


स्यादेतत् । यथा देशभेदनिमित्तो विरोधः, तथा कारणभेदनिमित्तोऽपि
स्यात् । को हि वस्तुतो विशेषः कारणभेदाद् देशभेदस्येति ?


उक्तमिह । परस्पराभावाव्यभिचारनिमित्तो वस्तूनामस्ति विरोधः ।
स देशभेदे31 संनिधीयते, न कारणभेदे । देशभेदवती हि रूपेऽन्योन्य
परिहारेणोपलभ्यमाने परस्पराभावाव्यभिचारिणी भवतो न कारण
भेदवती ।


10

तदेवं कम्परागावरणभावाभावकृते देशभेदनिबन्धने च चतुर्थे विरुद्ध
धर्मसंसर्गेऽवयविविषये व्यवस्थापिते पक्षधर्मत्वं सिद्धं हेतोः । अधुना व्याप्ति
रेवास्य स्वसाध्येन समर्थनीया ।


इह विरुद्धधर्मसंसर्गविरहमात्रनिबन्धनोऽभेदव्यवहारो वस्तूनां दृष्टः
अहेतोरयोगात्, निमित्तान्तरस्य चादर्शनात् । ततो विरुद्धधर्मसंसर्गेऽपि
भवन्नभेदव्यवहारो व्यापकं 32निमित्तत्वं जह्यात् । ततो व्यापकानुपलब्ध्या
तस्माद् व्यावृत्तो33 विरुद्धधर्मविरहेण व्याप्यते । तद्विरुद्धश्च विरुद्धधर्म
संसर्गः । तेनेयं व्यापकविरुद्धोपलब्धिभूमिका ।


एवं प्रसाधितेऽस्यास्त्रैरूप्येऽसिद्धविरुद्धानैकान्तिका दोषा नावकाशं
लभन्त इति ।


एवं मया बहुषु दुर्मतिनिर्मितेषु

प्रत्युद्धृतेषु खलु दूषणकण्टकेषु ।

आचार्यनीतिपथ एव विशोधितोऽय-

मुत्सार्य मत्सरमनेन जनः प्रयातु ॥

॥ समाप्तं चेदमवयविनिराकरणमिति ॥
  1. नमः समन्तभद्राय S

  2. चेष्टितानि S

  3. °मानस्थूलो S

  4. निषिद्धं S

  5. °स्यावशिष्टप्रसिद्धं S

  6. वा विरुद्धम् S

  7. चेद् विरुद्धम् S

  8. om S

  9. तदेवमवस्थिते S

  10. निरूप्यम् S

  11. भिन्नमिति तयोः S

  12. निवर्तते S

  13. °दविघाताद्वा R

  14. तत् om S

  15. स द्रव्या° S

  16. °मेव तत् S

  17. दर्शनस्य R

  18. एवमनाव° R

  19. उक्ते S

  20. °व्यापिनो S

  21. °भाषितया S

  22. तद्देशः R

  23. °तद्देशयो° S

  24. °दविच्छिन्नं S°द् विच्छिन्नं ?

  25. एव om R

  26. भाव्यचारितुं सच्च विरुद्धम् R

  27. चाकाराभेदे R

  28. प्रत्यक्षाश्रितं R

  29. देशवृत्ति° ?

  30. देशभेदेऽपि S

  31. निमित्तवत्त्वं S

  32. तस्माद् व्या° om R

  33. प्रतिभास इति S