192 यथा वा वीरचरिते— एह्येहि वत्स रवुनन्दन पूर्णचन्द्र चुम्बामि मूर्धनि चिरस्य परिष्वजे त्वाम् । आरोप्य वा हृदि दिवानिशमुद्वहामि वन्देऽथवा चरणपुष्करकद्वयं ते ॥882
वह्निजो यथामरुशतके— क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराग्निः ॥883
यथा वा रत्नावल्याम्— विरम विरम वह्ने मुञ्च धूमाकुलत्वं प्रसरयसि किमुच्चैरर्चिषां चक्रवालम् । विरहहुतभुजाहं यो न दग्धः प्रियायाः प्रलयदहनभासा तस्य किं त्वं करोषि ॥884
करिजो यथा रवुवंशे885— स च्छिन्नबन्वद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन । रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥ करिग्रहणं व्यालोपलक्षणार्थम् । तेन व्याघ्रसूकरवानरादिप्रभवा आवेगा व्याख्याताः886।
अथ वितर्कः—
After vyākhyātāḥ the following is found in A.T.A. yathā mālatī—are re saṃkarūravāsiṇā jana ity ādi.
Generating a file for download may take up to a few minutes. Please wait.
This dialog should close automatically when the download has completed.