195 अथौत्सुक्यम्—
यथा कुमारसंभवे— आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी । हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥894
यथा895 वा तत्रैव— पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः । कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥896
अथ चापलम्—
यथा 897विकटनितम्बायाः— अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु । बालामजातरजसं कलिकामकाले व्यर्थं कदर्थयसि किं नवमल्लिकायाः ॥
यथा वा— विनिकषणरणत्कठोरदंष्ट्राक्रकचविशङ्कटकन्दरोदराणि ।
‘तत्रोच्छ्वासत्वरा’ इति पाठः
A.T.A. omits yathā vā tatraiva paśupatir api, etc.
Vikaṭanitambāyāḥ is missing in A.T.A.
Generating a file for download may take up to a few minutes. Please wait.
This dialog should close automatically when the download has completed.