211 तदभावेऽप्यर्थान्तरसंक्रमितवाच्यार्थत्वेन च द्विविधो भवति । अन्योऽपि विवक्षितवाच्यश्च द्विविधो भवति लक्ष्यक्रमोऽलक्ष्यक्रमश्चेति । तत्र विभागे रसादीनां प्राधान्येन प्रतिपत्तौ सत्यामसंलक्षितक्रमत्वम् । अङ्गत्वेन प्रतिपत्तौ सत्यां रसवन्नामालंकार इत्याह तस्य चेत्यादिना ।
अत्रोच्यते—
यथा लौकिकवाक्येषु श्रूयमाणक्रियेषु गामभ्याज इत्यादिष्वश्रूयमाणक्रियेषु च द्वारं द्वारम् इत्यादिषु स्वशब्दोपादानात् प्रकरणादिवशाद्वा बुद्धि- संनिवेशिनी क्रियैव कारकोपचिता वाक्यार्थस्तथा काव्येष्वपि स्वशब्दोपादानात् क्वचित् प्रीत्यै नवोढा प्रिया इत्येवमादौ1010 क्वचिच्च प्रकरणादिवशात् 1011संनिहिताभिहितविभावाद्यविनाभावाद्वा साक्षाद् भावकचेतसि विपरिवर्तमानो रत्यादिः स्थायी स्वस्वविभावानुभावव्यभिचारिभिस्तत्तच्छब्दोपनीतैः संस्कारपरंपरया परां प्रौढिमानीयमानो 1012वाक्यार्थः । न चापदार्थस्य वाक्यार्थत्वं नास्तीति वाच्यम् । कार्यपर्यवसायित्वात् तात्पर्यशक्तेः । तथा हि—पौरुषेयमपौरुषेयं वा सर्वं वाक्यं कार्यपरम् । अतत्परत्वेऽनुपादेयत्वादुन्मत्तादिवाक्यवत् । काव्यशब्दानां चान्वयव्यतिरेकाभ्यां निरतिशयसुखास्वादव्यतिरेकेण एव, न तु सर्वथा प्रतिपाद्यप्रतिपादकयोः प्रवृत्तिविषयप्रयोजनान्तरानुपलब्धेः । काव्यशब्दानां च स्वानन्दोद्भूतिरेव कार्यत्वेनावधार्यते । तदुद्भूतिनिमित्तत्वं च विभावादिसंसृष्टस्य स्थायिन एवावगम्यते । अतो वाक्यस्याभिधाशक्तिस्तेन तेन रसेनाकृष्यमाणा तत्तत्स्वार्थापेक्षितावान्तरविभावादिप्रतिपादनद्वारा स्वपर्यवसायितामानीयते । तत्र विभावादयः पदार्थस्थानीयास्तत्संसृष्टो रत्यादिर्वाक्यार्थः । तदेतत् काव्यं1013वाक्यपदीयम् । ताविमौ पदार्थवाक्यार्थौ । न चैवं सति