दिङ्मात्रं तु—
शेषं प्रच्छन्नकामितादि कामसूत्रादवगन्तव्यम् ।
आचार्यैरयमयोगो दशावस्थ इति यदुक्तं तत् प्रायोवृत्त्या । वस्तुतस्तु अवस्थानामानन्त्यमेवेत्याह दशावस्थत्वमिति । तस्यानन्त्यस्य दिङ्मात्रं प्रदर्श्यते । काम्यस्य दर्शनाद् भवत्यौत्सुक्यमपि । तथा तस्मिन्नप्राप्तेऽपि भवति निर्वेदः । अतिचिन्तनादपि भवति ग्लानिः । यत्तु स्फुटाभिसरणोपायाभावे प्रच्छन्नकामित्वादि एतत् कामसूत्रादवगन्तव्यमित्यर्थः ।
अथ विप्रयोगः—
प्राप्तयोरप्राप्तिः = विप्रयोगः । तस्य द्वौ भेदौ—मानः, प्रवासश्च । मानविप्रयोगोऽपि द्विविधः—प्रणयमानः, ईर्ष्यामानश्चेति ।
प्राप्तयोरिति । विप्रयोगस्यायोगाद् वैषम्यमिदमित्यर्थः ।
प्रेमपूर्वको वशीकारः=प्रणयः, तद्भङ्गे मानः = प्रणयमानः । स च द्वयोर्नायकयोर्भवति । तत्र नायकस्य यथोत्तररामचरिते—
-
N.S.P. kapāvasitayoḥ.
↩