5 पेक्षया संगच्छते । ततः शास्त्रेण 42सह विषयैक्यप्रसक्तं पौनरुक्त्यमुत्तरश्लोकेन परिहरतीत्यर्थः । ननु शास्त्रेणोक्तस्य त्वयापि 43कथने किं प्रयोजनम् । अत आह व्याकीर्ण इति । यद्यपि शास्त्रेणोक्तोऽयमर्थः, तथापि तेन विक्षेपाद् विस्तरतश्चोक्तमर्थमहं44 संक्षेपेणार्जवेन च वदामीत्यर्थः । 45उत्तरोक्तपरिहारद्वयकटाक्षेण व्याचष्टे व्याकीर्णे विक्षिप्ते विस्तृते चेति । बुद्धेर्मान्द्यं नाम 46न विषयाणामग्रहः । किं तु अल्पविषयत्वम् । तेनाह अल्पबुद्धीनामिति । अल्पस्य बुद्धिरल्पबुद्धिः । अल्पविषया बुद्धिरित्यर्थः । विक्षिप्ते विभ्रमो भवति । विस्तीर्णे विस्मरणम्47 । उभयसंग्रहार्थं व्यामोह इत्युक्तम् । तस्येत्यत्र तद्वृत्तेन48 नाट्यवेदः परामृश्यते इत्याह तस्य नाट्यवेदस्येति । यद्यप्ययमर्थः विक्षिप्ते विभ्रमो भवतीति पूर्वश्लोकेनैव सूचितः, तथापि विक्षेपे विस्तरे च दर्शिते सति परिहारापेक्षा भवतीत्ययमेव परिहारः ।
इदं प्रकरणं दशरूपज्ञानफलम् । 49दशरूपज्ञानं किंफलमित्याह—
अत्र51 केचित्
उत्तरस्य श्लोकस्य नमस्कारपर्यवसायित्वमसंगतमनुपयुक्तं च मन्वानः संगतेन सोपयोगेन च 55प्रयोजनाप्रयोजनकथनपरत्वेन तं व्याख्यास्यन् तदनुकूलां शङ्कामवतारयति इदमिति । अस्य 56हि प्रकरणस्य दशरूपक
-
T. MS. omits saha.
↩ -
M.G.T. reads vacane, Tri. MS. vivacane.
↩ -
M.G.T. omits aham.
↩ -
M.G.T. reads uttarottaraparihāra- etc.
↩ -
T. MS. omits na.
↩ -
M.G.T. and Tri.MS. give vistāraṇam.
↩ -
tadvṛttam means tacchabdaḥ (vibhaktyantaḥ), just as yadvṛttaṃ means yacchabdaḥ, and kiṃvṛttaṃ kiṃśabdaḥ. See the kārikā about uddeśya and vidheya:
↩yadvṛttayogaḥ prāthamyam ityādy uddeśyalakṣaṇam |tadvṛttayogaḥ paścāttvaṃ syād vidheyasya lakṣaṇam || -
N.S.P. daśarūpaṃ kiṃphalam ?
↩ -
N.S.P. svādu-.
↩ -
N.S.P. tatra.
↩ - भामहः १।२↩
-
A.T.A. paramānandasvarūpo.
↩ -
N.S.P. solluṇṭham.
↩ -
Except T.MS. all MSS. read prayojana–kathanaparatvena.
↩ -
T.MS. omits hi.
↩