45 एतानि द्वादश गर्भाङ्गानि प्राप्त्याशाप्रदर्शकत्वेनोपनिबन्धनीयानि । एषां च मध्येऽभूताहरणमार्गतोटकाधिबलाक्षेपाणां प्राधान्यम् । इतरेषां यथासंभवं प्रयोग इति साङ्गो गर्भसंधिरुक्तः ।
तत्प्रदर्शकत्वेनोपनिबद्ध्यमानान्यपि गर्भसंध्यङ्गान्येव भवन्ति । तेनोक्तं प्राप्त्याशाप्रदर्शकत्वेनेति ।
अथावमर्शः—
अवमर्शनमवमर्शः पर्यालोचनम् । तच्च क्रोधेन वा, व्यसनाद्वा, विलोभनेन वा । भवितव्यमनेनार्थेनेति एवम् अवधारितैकान्तफलप्राप्त्यवसायानात्मा गर्भसंध्युद्भिन्नबीजार्थसंबन्धो विमर्शोऽवमर्शः । यथा रत्नावल्यां चतुर्थेऽङ्के342 अग्निविद्रवपर्यन्तो वासवदत्ताप्रसत्त्याप्रसक्त्या निरपायो रत्नावलीप्राप्त्यवसानात्मा343 विमर्शो दर्शितः ।
यथा च वेणीसंहारे दुर्योधनरुधिराक्तभीमसेनागमपर्यन्तः—