8 बहुत्वाद्रसानां बहुवचनेन विगृह्णाति रसानाश्रित्येति । ननु न्यूनाधिकसंख्याव्यवच्छेदफलेन संख्यानेनैव दशेति सिद्धे किमवधारणेन । तत्राह अवधारणं त्विति । शुद्धिर्नाम लक्षणासांकर्यम् । नाटिका हि नाटकप्रकरणलक्षणसंकरादेवोपपद्यत इति ।
तानेव दशभेदानुद्दिशति—
ननु71 च
रसाश्रयान्नाट्याद् भावाश्रयं नृत्यमन्यदेव । तत्र भावाश्रयमिति विषयभेदान्नृत्यमिति73 नृतेर्गात्रविक्षेपार्थत्वेनाङ्गिकबाहुल्यात् तत्कारिषु च नर्तकव्यपदेशाल्लोकेऽपि च74 रङ्गे प्रेक्षणीयकमिति व्यवहारान्नाटकादेरन्यन्नृत्यम् । तद्भेदत्वाच्छ्रीगदितादेर्नावधारणानुपपत्तिः75 । नाटकादि च रसविषयम् । रसस्य च पदार्थीभूतविभावादिकसंसर्गात्मकवाक्यार्थरूपत्वाद्76 वाक्यार्थाभिनयात्मकत्वं रसाश्रयमित्यनेन दर्शितम् । नाट्यमिति च नट अवस्पन्दने इति नटेः किंचिच्चलनार्थत्वात् सात्त्विकबाहुल्यम् । अत एव तत्कारिषु नटव्यपदेशः । लोकेऽपि च रङ्गे नाट्यमिति व्यपदेशः । एतदुक्तं भवति77 यथा च गात्र
-
nanu ca is lemma in Laghuṭīkā, but N.S.P. has only nanu.
↩ -
N.S.P. iti rūpakāntarāṇām, etc.
↩ -
A.T.A. nṛtyam iti ca nṛter, etc.
↩ -
N.S.P. (loke ’pi) cātra.
↩ -
N.S.P. avadhāraṇopapattiḥ.
↩ -
N.S.P. -vākyārthahetukatvād, etc. vākyārtharūpatvād is the correct reading, and not … hetukatvād as in the N.S.P. or … hetutvād as quoted in Bhoja’s Śṛṅgāra Prakāśa (1963), page 537.
↩ -
This is in the light of the explanation by Bh. Nṛ.
↩