70 अथापवारितम्—
परावृत्यान्यस्य रहस्यकथनमपवारितमिति ।
परावृत्येति । अन्येन सह कथयन् ततः परावृत्य अन्यकर्णे यत् कथयति तदपवारितमित्यर्थः ।
नाट्यधर्मप्रसङ्गादाकाशभाषितमाह—
स्पष्टार्थः ।
नाट्यधर्मप्रसङ्गादिति । स्वयमप्रसक्तस्याप्याकाशभाषितस्य नाट्यधर्माणां प्रसक्तत्वादस्यापि नाट्यधर्मत्वाच्च तत्प्रसङ्गादेतदुच्यत इत्यर्थः ।
अन्यान्यपि नाट्यधर्माणि प्रथमकल्पादीनि कैश्चिदुदाहृतानि । तेषामभारतीयत्वान्नाममात्रप्रसिद्धानां469 केषांचिद् देशभाषात्मकत्वान्नाट्यधर्मत्वाभावाल्लक्षणं नोक्तमित्युपसंहरति—