3 ताण्डवे पुष्करवद् भवतीत्येवंरूपा भवति । 22अर्थान्तरप्रतीतौ सत्यां हि उपमान्तरम् । तेनाह नीलकण्ठस्येति । द्वितीये तु श्लोके पूर्ण एव श्लेषोऽलंकारः । तथा व्याचष्टे दशरूपानुकारेणेति । एकत्रेति । अयं च श्लोकार्थः । यस्य दशरूपाणां दशावताराणामनुकारेण प्रतिमारूपेण23 ध्यातारो माद्यन्ति, यस्य च मुनेर्दशरूपप्रणीतेन नाटकाद्यनुकारेण सामाजिका माद्यन्ति, सर्वविदे तस्मै विष्णवे = हरये, भरताय च नम इति24 ।
श्रोतुः प्रवृत्तिनिमित्तं 25दर्शयति—
तं कंचिद्विषयं प्रकरणादिरूपं 26कस्यचिदेव कवेः कदाचित् सरस्वती योजयति । येन प्रकरणादिना 27विषयेणान्योऽपि जनो विदग्धो भवति ।
उत्तरश्लोकस्यास्फुटविवक्षितार्थतां28 मन्यमान आह29 श्रोतुः प्रवृत्तिनिमित्तं दर्शयतीति । श्रोतुः प्रवृत्तिः श्रवणम् । तस्योद्देश्यतया निमित्तं = प्रयोजनम् । तद् दर्शयतीति श्रोतृप्रवृत्त्यङ्गं प्रकरणस्य प्रयोजनं दर्शयतीत्यर्थः । कस्यचिदेवेति श्लोकस्यायमर्थः । कस्यचिदेव विदुषः कदाचिदेव सरस्वती तं कमपि प्रकरणादिरूपं निर्माणविषयं योजयति येनान्योऽपि जनो व्यावृत्तदशरूपज्ञानात्मिकां वैदग्धीं भजत इति । अस्य प्रकरणस्य दशरूपज्ञानं फलमित्यर्थः । तथा व्याचष्टे कस्यचिदेवेति । घटयतीत्यर्थान्तरस्यापि संभवात् संबन्धार्थतामाह योजयतीति ।
30स्वप्रवृत्तेर्विषयं दर्शयति—
-
This sentence is missing in Tri.MS.
↩ -
Tri.MS. reads pratimāropeṇa.
↩ -
Only Tri.MS. reads bharatāya ceti nama iti.
↩ -
N.S.P. pradarśyate.
↩ -
N.S.P. kadācid eva kasyacid eva kaveḥ, etc.
↩ -
N.S.P. viṣayeṇānyo jano, etc.
↩ -
Tri. MS. reads uttaraślokasya asphuṭaṃ vivakṣitārthaṃ manyamānaḥ, whereas M.G.T. gives it as asphuṭavivakṣitārtham.
↩ -
Only T.MS. gives on the margin śrotṛpravṛttītyādi.
↩ -
N.S.P. svapravṛttiviṣayaṃ.
↩