80 ननु सामान्यद्वारा512 प्राप्तानां स्थिरत्वादिगुणानां पुनः किमर्थं क्वचिदुदात्तादौ विशेषसंकीर्तनम् । तत्राह यच्चेति । जीमूतव हनादिरुदात्तत्वेनोदाहृतः । तदसहमानश्चोदयति नन्विति । जीमूतवाहनादिः बुद्धादिवच्छान्त एव । स कथमुदात्तत्वेन उदाह्रियत इति चोद्यार्थः । शमप्रधानत्वादिति । शमो नाम मनसो निरभिलाषत्वम् । कारुण्यं परदुःखदुःखित्वम् । वीतरागादिवदिति । बुद्धादिवदित्यर्थः । शान्तत्वं सदपि जीमूतवाहनादेरुपरितनेन मलयवत्यनुरागेण व्याहतमित्याह अन्यच्चात्रेति । यच्च धीरललितत्वादिगुणयोगेऽपि विप्रादिर्धीरशान्त एव न तु धीरललितादिरिति तदपि स्वपरिभाषामात्रं न वास्तवम् । उपपत्तिशून्या स्वसंज्ञा खलु परिभाषेति । तदेतदाह यच्चेति । वस्तुगत्येति । परिभाषां विहायेत्यर्थः । बुद्धयुधिष्ठिरजीमूतवाहनादीति । बुद्धादिसहपाठेन जीमूतवाहनोऽपि तद्वच्छान्त एवेति द्योतयति । अस्य शान्तत्वम् 513उदात्तत्वाद् विरुद्धम् । तेन जीमूतवाहनः उदात्त एवेति प्रतिपादयितुमारभते अत्रोच्यत इति । ननु उदात्ततया प्रतिपन्नस्य रामादेर्भूम्यादिलाभ एव धीरोदात्तत्वे प्रयोजकः । तत्राह रामादेरपीति । उदात्तत्वपरिपन्थिशमप्रधानत्वं जीमूतवाहनादेः कविनोक्तमिति पूर्वपक्षिणा प्रतिपादितमनुभाष्य परिहरति यच्चोक्तमित्यादिना । न बुद्धादिवदविशिष्टं514 निरभिलाषित्वमेव जीमूतवाहनादौ । किंतु स्वसुखनिरभिलाषित्वमित्युदाहरणेन दर्शयति यदुक्तमिति । न्यायतः प्राप्तमपि शान्तत्वम् उपरितनेन मलयवत्यनुरागेण व्याहतमित्युक्तं परिहरति मलयवत्यनुरागोपवर्णनं त्विति । प्रत्युतेति । मलयवत्यनुरागोपवर्णनस्य शान्तनायकतां प्रति न केवलं विरोध एव किं तु तन्निषेध एवेत्यर्थः । यदुक्तं शान्तो द्विजादिक एव न तु क्षत्रियादिरिति तदपि न पारिभाषिकमेव किं तु वास्तवमिति प्रतिपादयति शान्तत्वं चेति । औचित्यप्राप्तमिति । गुणिसंवादो गुणानामौचित्यं यथा जलस्य शैत्यम्, अग्नेरौष्ण्यमितिवत् । बुद्धादिसहपाठेन निरभिलाषित्वं कारुणिकत्वं च जीमूतवाहनादेरुक्तम् । तत्र निरभिलाषित्वं पूर्वमेव परिहृतम् । कारुणिकत्वमिदानीम् औदात्त्याविरुद्धमिति प्रतिपादयति बुद्धजीमूतवाहनयोस्त्विति । उपसंहरति अत इति ।