123 प्रवृत्तिरूपो नेतृव्यापारस्वभावः=वृत्तिः । सा च कैशिकीसात्त्वत्यारभटीभारतीभेदाच्चतुर्विधा । तासां गीतनृत्यविलासकामोपभोगाद्युपलक्ष्यमाणो मृदुः शृङ्गारी कामफलावच्छिन्नो व्यापारः कैशिकी ।
कामफलावच्छिन्न इति । कामरूपस्य व्यापारस्य फलावच्छेदेन हि निरूपणम् । तेनाह कामफलावच्छिन्न इति ।
तत्र—
अग्राम्य इष्टजनार्जनरूपः परिहासः=मर्म । तच्च शुद्धहास्येन सशृङ्गारहास्येन सभयहास्येन च रचितं त्रिविधम् । शृङ्गारवदपि स्वानुरागनिवेदनसंभोगेच्छाप्रकाशन-सापराधप्रियप्रतिभेदनैस्त्रिविधमेव । भयनर्मापि शुद्धरसान्तराङ्गभावाद् द्विविधम् । एवं षड्विधस्य प्रत्येकं वाग्वेषचेष्टाव्यतिकरेणाष्टादशविधत्वम्
शुद्धहास्यं भयहास्यं शृङ्गारहास्यं चेति त्रिविधं हास्यम् । शृङ्गारहास्यमपि आत्मोपक्षेपादिभिः त्रिविधम् । भयहास्यं द्विविधम् । अत