155 इति । एवं च कुलजा वेश्या उभयमिति त्रेधा प्रकरणे नायिका । यथा वेश्यैव तरङ्गदत्ते कुलजैव पुष्पदूषितके । ते द्वे अपि मृच्छकटिकायामिति । कितवद्यूतकारादिधूर्तसंकुलं तु मृच्छकटिकादिवत् संकीर्णप्रकरणमिति ।
नायिका तु द्विधा तत्रेति ।770 तत्र प्रकरणे द्विविधा नायिका । क्वचित् कुलस्त्री क्वचिद् गणिका क्वचिदुभयमिति । यत्रोभयं तत्र नायकेन अनयोः कुलस्त्रीगणिकयोः नातिक्रमः कार्यः । कुलस्त्रीमात्रयुक्तं गणिकामात्रयुक्तं च प्रकरणं शुद्धम् । उभययुक्तं प्रकरणं संकीर्णमिति । क्वचिद् गणिका नायिकेत्युक्त्वा पुनर्वेश्या क्वापीति वचनं व्याकुलमिव । तत्राह वेशो भृतिरित्यादि । गणिकैव वेशान्वयाद् वेश्येत्यभिधीयत इत्यर्थः ।
अथ नाटिका—
अत्र केचित्— इत्यमुं भारतीयं श्लोकमेको भेदः प्रख्यातो नाटिकाख्य इतरस्त्वप्रख्यातः प्रकरणिकासंज्ञो नाटीसंज्ञया द्वे काव्ये आश्रिते इति व्याचक्षणाः प्रकरणिकामपि मन्यन्ते । तदसत् । उद्देशलक्षणयोरनभिधानात् समानलक्षणत्वे च भेदाभावात् । वस्तुरसनायकानां प्रकरणाभेदात् प्रकरणिकायाः । अतोऽनुद्दिष्टाया नाटिकाया यन्मुनिना लक्षणं कृतं तत्रायमभिप्रायः । शुद्धलक्षणसंकरादेव तल्लक्षणे सिद्धे लक्षणकरणं संकीर्णा नाटिकैव कर्तव्येति नियमार्थं विज्ञायते ।
प्रकरणानन्तरमेव भाणाद्यनुक्त्वा नाटिकाया लक्षणवचने हेतुमाह लक्ष्यत इति । अर्थप्राप्तस्यापि नाटिकालक्षणस्य करणमन्यनिवृत्ति