159 लास्याङ्गानि—
शेषं स्पष्टमिति ।
प्रहसनं तु शुद्धं विकृतं संकीर्णं चेति त्रेधा । यत्र अप्रच्युतस्वरूपाः पाषण्डकञ्चुकितापसा एव विभावाः तत् शुद्धम् । यत्र तु ते चोरभटादिवेषभाषादियोगिनः प्रच्युतस्वभावाः तद् विकृतम् । यत्र तु संकरः तत् संकीर्णमिति । तथैव दर्शयति तद्वदित्यादिना ।
तत्र शुद्धं तावत्—
पाषण्डिनः = शाक्यनिर्ग्रन्थप्रभृतयः । विप्राश्चात्यन्तमृजवः, जातिमात्रोपजीविनो वा प्रहसनाङ्गिहास्यविभावाः । तेषां च यथावत्स्वव्यापारोपनिबन्धनं चेटचेटीव्यवहारयुक्तं शुद्धं प्रहसनम् ।