161 मुखगर्भनिर्वहणाख्याश्चत्वारः संधयः साङ्गाः मायेन्द्रजालाद्यनुभावसमाश्रयाः । शेषं प्रस्तावनादि नाटकवत् । एतच्च—
डिमे तु देवगन्धर्वादयः षोडश नायकाः । प्रख्यातमितिवृत्तम् । रसास्तु हास्यशृङ्गाररहिताः षट् । वृत्तयः कैशिकीरहितास्तिस्रः । तत्र न्यायप्राप्तो रौद्रः अङ्गी रसः । न्यायप्राप्तिश्च रावणवत्परदारादिश्रद्धावैधुर्यम् । इतरे पञ्चापि रसास्तदङ्गम् । संधयो विमर्शरहिताः चत्वारः । अङ्का अपि तत्संख्यया चत्वारः । उदाहरणमेतस्य त्रिपुरदाहः । तथैव दर्शयति डिम इत्यादिना ।
अथ व्यायोगः—
व्यायुञ्जतेऽस्मिन् बहवः पुरुषा इति व्यायोगः । तत्र डिमवद् रसाः षट् हास्यशृङ्गाररहिताः । 780वृत्त्यात्मकत्वाच्च रसानामवचनेऽपि कैशिकीरहितेतरवृत्तित्वं रसवदेव लभ्यते । अस्त्रीनिमित्तश्चात्र संग्रामः । यथा परशुरामेण पितृवधकोपात् सहस्रबाह्वर्जुनवधः कृतः । शेषं स्पष्टम् ।
व्यायोगे तु प्रख्यातमितिवृत्तम् । प्रख्यात उद्धतश्च नायकः । डिमवद् दीप्ताः षड् रसाः । कैशिकीरहितास्तिस्रो वृत्तयः । गर्भावमर्शरहितास्त्रयः