2a क्वचिद् व्यभिचारस्या
दर्शनात् । अनुपलभ्यमानस्यापि कल्पनानुपपत्तेः । न चादृश्यमानोऽपि दर्शनानर्हतया
साधकबाधकप्रमाणाभावेन सन्दिह्यमान उपाधिः सम्बन्धस्य स्वाभाविकत्वं प्रति
बध्नातीति युक्तम्,

अवश्यं शङ्कया भाव्यं नियामकमपश्यताम्
2427

इति च दत्तावकाशा लौकिकप्रमाणमर्यादातिक्रमेण संशयपिशाची लब्धप्रसरा न
क्वचिन्नास्तीति नायं क्वचित् प्रवर्तेत, सर्वत्रैव कस्यचिदनर्थस्य कथञ्चित् शङ्कास्पदत्वात् ।
अनर्थशङ्कायाश्च प्रेक्षावतां निवृत्त्यङ्गत्वात् । अन्ततः स्निग्धान्नपानोपयोगेऽपि मरण
दर्शनात् । तस्मात् प्रामाणिकलोकयात्रामनुपालयता यथादर्शनमाशङ्कनीयम्, न तु
अदृष्टपूर्वमपि । विशेषस्मृत्यपेक्ष एव हि संशयो नास्मृतेर्भवति । न च स्मृतिरननुभूतचरे
भवितुमर्हति । तदुक्तं मीमांसाश्लोकवार्तिककृता,

नाशङ्का निष्प्रमाणिका
श्लो. वा., सू. २. ६०

इति । तथा तेनैव बृहट्टीकायाम्,
उत्प्रेक्षेत हि यो मोहादजातमपि बाधकम् ।
स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥

इति । तस्मादुपाधिं प्रयत्नेनान्विष्यन्तोऽनुपलभमाना नास्तीत्यवगम्य स्वाभाविकत्वं
सम्बन्धस्य निश्चिनुमः ।

स्यादेतदन्यस्यान्येन सहाकारणेन चेत् स्वाभाविकः सम्बन्धो भवेत्, सर्वं
सर्वेण स्वभावतः सम्बध्येत, सर्वं सर्वस्माद् गम्येत । अथान्यस्य चेदन्यत् कार्यम्,

  1. प्र. वा., ३. ३२४