163
कस्मात् सर्वं सर्वस्मान्न भवति, अन्यत्वाविशेषात् ? ततश्च स एवातिप्रसङ्गः । यद्युच्येत
न भावस्वभावाः पर्यनुयोज्याः, तस्मादन्यत्वाविशेषेऽपि किञ्चिदेव कारणं किञ्चिच्च
कार्यमिति, नन्वेष स्वभावाननुयोगोऽकार्यकारणभूतानामपि स्वभावप्रतिबन्धे तुल्य
एव । तस्मात् यत्किञ्चिदेतदपि ।

केन पुनः प्रमाणेनैष स्वाभाविकः सम्बन्धो गृह्यते ? प्रत्यक्षसम्बन्धेषु
प्रत्यक्षेण । तथा हि यदा तावत् प्रथमं वह्निधूमयोः सहार्द्रेन्धनयोः सम्बन्धं पश्यति,
तदा किं द्वयोरपि स्वाभाविकः सम्बन्धः औपाधिको वा; अथ धूमस्यौपाधिकः, वह्नेः
स्वाभाविकः, वह्नेरौपाधिको धूमस्य स्वाभाविक इति च न शक्यं निर्धारयितुम् ।
तत्र वह्नेरनार्द्रेन्धनस्य विना धूममयोगोलकादौ दर्शनादार्द्रेन्धनोपाधिरस्य धूमेन
सम्बन्धो, न तु स्वाभाविक इति निश्चीयते । धूमविशेषस्य तु विना वह्निमनुपलम्भा
दुपाधिभेदस्य चानुपलभ्यमानस्य कल्पनायां प्रमाणाभावात् विशेषस्मृत्यपेक्षस्य
संशयस्यानुपलब्धपूर्वेऽनुत्पादात् । उत्पादे वातिप्रसङ्गात् । प्रेक्षावतां प्रवृत्त्युच्छेदात्
स्वाभाविकः सम्बन्धोऽवधार्यते ।

तदिदमवधारणं न मानसम्, अनपेक्षस्य मनसो बाह्येषु प्रवृत्ताबन्धवधिराभाव
प्रसङ्गात् । भूयोदर्शनसापेक्षस्य च प्रवृत्तौ प्रमाणान्तरापातात् । न हि मनो निमित्त
मित्येव मानसम् । तथा सति न किञ्चिन्न मानसम्, प्रत्ययमात्रस्य