2b मनोनिमित्त
त्वात् । तत्तदसाधारणकारणापेक्षया च तत्तत्प्रमाणव्यपदेशेऽत्रापि भूयोदर्शनम्
असाधारणं कारणमस्तीति प्रमाणान्तरं जातम् । तस्मादभिजातमणिभेदतत्त्ववद्
भूयोदर्शनजनितसंस्कारसहायमिन्द्रियमेव धूमादीनां वह्न्यादिभिः स्वाभाविकसम्बन्ध
ग्राहीति युक्तम् ।

एवं मानान्तरविदितसम्बन्धेषु मानान्तराण्येव यथास्वं भूयोदर्शनसहायानि
स्वाभाविकसम्बन्धग्रहणे प्रमाणमुन्नेतव्यानि । स्वभावतश्च प्रतिबद्धा हेतवः स्वसाध्येन
यदि साध्यमन्तरेण भवेयुः, स्वभावादेव प्रच्यवेरन्निति तर्कसहाया निरस्तसाध्य
व्यतिरेकसन्देहा यत्र दृष्टास्तत्र स्वसाध्यमुपस्थापयन्त्येव । न च श्यामतादिषु
मैत्रतनयत्वादीनां स्वाभाविकप्रतिबन्धसंभवः, अन्नपानपरिणतिभेदस्योपाधेः श्यामताया
मैत्रतनयत्वसम्बन्धं प्रति विद्यमानत्वेन मैत्रतनयत्वस्यागमकत्वात् । एतेन पक्वान्यस्य
वृक्षस्याग्रवर्तीनि फलानि, एतद्वृक्षप्रभवत्वात्, आस्वादितफलवदित्यादयोऽप्यौपाधिक
सम्बन्धा व्याख्याताः । तस्माद् यस्य स्वाभाविकः सम्बन्धो नियतः सोऽनुमानाङ्गम्,