189
गम्यमाने स्वभावशब्दो दृश्यशब्दो वा प्रयुज्यमानः प्रतिषेध्यापेक्षया अनुपलब्धिशब्देन
व्यपदेशयति । तदेकत्रोपलब्धित्वं गम्यमन्यत्रानुपलब्धित्वम् । तत्त्वं त्वेकमेवेति न
दोषः ।

यदा च विरुद्धः प्रतियोगी द्वितीयस्य च परोक्षस्यैव निषेधः, तदा तस्यापि
नावश्यं प्रत्यक्षमेवानुपलब्धिः । किं त्वनुमानमपि । विरुद्धो हि स्वसत्तया परसत्ताम्
अपनयन् प्रतियोगी मतः । न च परोक्षोऽपि तथा भवन् केन वार्यते ? नियतसहोपलम्भे
तु प्रतियोगिनि प्रत्यक्षयोग्यस्यैव निषेध इति तस्यावश्यं प्रत्यक्षापेक्षा । न ह्यनुमीयमाने
प्रदेशे घटो यदि भवेदुपलभ्येतैवेति सामर्थ्यं प्रत्यक्षायोगादनुमानस्य चारम्भनियमा
भावादिति कथं निषेधः ?

यद्येवं विकल्पमात्रादप्रतिषेध इति चेत्—न, तत्रापि विकल्पाकारे वेद्यमाने
बहिरप्यभिमतदेशमिन्द्रियसामर्थ्यानपायेऽनुभूयेतेत्युच्यते । न तु विकल्पनीये बाह्ये
विकल्प्यमाने द्वितीयमपि वेद्येतेति शक्यम् । विकल्पनीयेऽपि बाह्ये विकल्प्यमाने
तद्देशमपरमुपलभ्येतैवेति किं न स्यात् ? न हि प्रतियोगिज्ञानमन्यस्य