5b दृश्यता
रोपनिबन्धनम्, अपित्वभावनिश्चयोत्पादनिमित्तं सत्त्ववस्तुत्वात् । तच्च विकल्पस्यापीति
को विशेषः ?

अथ प्रतिपत्त्रनुरोधः, एकज्ञानसंसर्गिणोऽप्यनुरोधः साधुरिति—नैवम्, जले
गन्धस्यानले रसस्यापि वायौ रूपस्यापि शेषमात्रोपलब्धौ वा अभावव्यवहारमात्र
दर्शनात् । तत्र वा ज्ञानकार्यानुपलम्भवदन्यत्रापि स एवेति किमेकज्ञानसंसर्गिणा ?
कार्यानुपलब्ध्या समर्थस्यैव निषेध इति चेत् ? गन्धादिस्तर्हि सन्नपि नीरादाविन्द्रिय
वैगुण्यान्नोपलभ्य इति महदेव शास्त्रपरिश्रमफलम् । स हि वैगुण्यस्य कारणानुपलम्भेऽपि
योग्यादिभिरभिभवं संभावयन् संशेते, भूतले तु तत्कृताभूतदर्शनमिन्द्रियपाटवेऽपि
संभावयन् किं न संशेते । तस्मादभ्यासदशायां तादवस्थ्यस्थित्यैव व्यवहारः ।

न्यायनाथस्य तु न व्यवहारमनुवृत्त्य पर्यनुयोगो विसर्गो वा, किंत्वेतावत्यामपि
गतौ नास्मल्लक्षणक्षतिरिति दर्शयितुं प्रौढिवशात् । यथा सर्वचिता सर्वबोधनिश्चये
स एव सर्वज्ञ इति । व्यवहारे च यथैकज्ञानसंसर्गिणं पश्यतस्तथान्यमपि प्रतियोगिनम्
अभावनिश्चयो दृष्टः साधारणोऽविसंवादि चेति नैकज्ञानसंसर्गिग्रहः, विकल्प
शरणावस्थायां च तदाकारसंवेदनमेवान्यनिषेधसाधनं युक्तम्, तथैवाभ्यासेन