8a यदि तत्रापि किंकृतः ।
प्रदेशमात्रयोग्यत्वाच्चित्रा हि विषयस्थितिः ॥
अनालोकस्य धीर्यद्वद् बाधा नानुक्तभेदिका ।
संसर्गिणमनादृत्य तथा बाधात्तु कुत्रचित् ॥
तस्यास्तु रूपं प्रतियोगि वस्तु
विज्ञानमेवेति न भट्टभीतिः ।
तथा हि सोऽपि प्रतियोगिभावो
मिथः समक्षाव्यभिचार एव ॥
तत एवैकविज्ञानमन्याभावविकल्पकृत् ।
नाभावबोध्योऽध्यक्षेण तत्कृतान्निश्चयात् परः ॥
यथोक्तप्रतियोगित्वे सत्येव क्षममक्षजम् ।
तदभावावसायायेतीदृशी वस्तुनः स्थितिः ॥

ननु प्रतियोग्येवैकज्ञानसंसर्गी साक्षादेकज्ञानसंसर्गस्याभिमतत्वान्मुख्यतया
साकारस्वीकारात् । ततः सामर्थ्यादेकशब्दोऽव्यभिचारमात्रोपलक्षणतयाऽवतिष्ठते ।
प्रत्यक्षैकजात्यपेक्षया चैकवृत्तिरेव । न चैवं संज्ञामात्रम्, तथा रूढिदर्शनात्, यथैको ब्रीहिः
संपन्नः सुभिक्षं करोतीति । तेन यत्राप्येकज्ञानसंसर्गिणि दृश्यमान इति उच्यते, तत्राप्यन्यो
ऽन्यप्रत्यक्षाव्यभिचारिणीत्ययमेवार्थः । एकायतनभाव एव तूपलक्षणतया प्रकृतापेक्षतया
व्याख्येयः, यथा प्रदेशस्तज्ज्ञानं चानुपलब्धिरिति ।

ततश्च स्वभावानुपलब्धौ प्रतियोगिसमाश्रय इत्येकज्ञानसंसर्गिसमाश्रय एवोक्तो
भवतीति कथमव्यापकमेकज्ञानसंसर्गित्वं नाम ? सत्यमेवम्,

प्रतियुगसितैकधीस्थिति
र्यदि भवते प्रतिभाति का क्षतिः ।
ननु सकलकलापसंहृतं
स्वयमदृशोऽस्तु निषेधनं ध्वनेः ॥