234

अत्र बौद्धमुत्थापयन् शङ्करः प्राह, नोत्पत्तिमात्रेण यथोक्तबुद्धिमत्पूर्वकत्वस्य
सिद्धिः । अपि तु यादृशं प्रासादादिषु दृष्टम्, यद्दृष्टेरक्रियादर्शिनोऽपि कृतबुद्धिरुत्पद्यते,
यदि तादृगेव क्षित्यादिषु भवेत् स्यादत्रापि बुद्धिमतोऽनुमानम् । न कार्यत्वशब्दसाम्येन,
तत्र व्यभिचारस्यापि संभाव्यमानत्वात् । न ह्यर्थान्तरात्,

शब्दसाम्यादभेदिनः
प्र. वा. १. १४

पाण्डुत्वादग्नेरनुमानं न्याय्यम् । अचेतनोपादानत्वाद् घटादिवत् क्षित्यादेरपि कर्तुः
अनुमानमिति चेत् ? एवं तर्हि घटादेर्मुद्विकारस्य कुम्भकारपूर्वकत्वाद् वल्मीकस्यापि
तत्पूर्वकत्वानुमानप्रसङ्गः । तदुक्तम्,
सिद्धं यादृगित्यादि
प्र. वा. १. १२

वार्तिकत्रयम्2462 । तदिदमनिरूपितपराभिप्रायस्य व्याहृतम् । तथा हि बुद्धिमत्कारणस्य
सद्भावे भावो घटादाबुत्पत्त्यादेरभावे चाभावो गगनादिषु । स च तथा प्रसिद्धाविनाभावो
यत्रैव क्षित्यादावुपलभ्यते तत्रैव तद्विनिर्माणसमर्थकर्तृबुद्धिं तद्विदो जनयति । न चैवं
पाण्डुत्वादयः, तेषां जात्यन्तरसमवायिनामग्निव्यभिचारोपलब्धेरिति । तथा न ह्यनधि
ष्ठितानां प्रयत्नवता करणकर्मणां क्रियासु स्वातन्त्र्यमुपलब्धपूर्वम्, सर्वत्र बुद्धिमदधिष्ठितेभ्य
एव प्रासादादिप्रसवोपलब्धेरिति ॥

2463वाचस्पतिस्तु स्वाभाविकसम्बन्धं प्रस्तुत्याह, इहापि कार्यत्वस्योपादानाद्यभिज्ञेन
कर्त्रा स्वाभाविकः सम्बन्धोऽस्त्येव, उपाधेरनुपलम्भेन व्यभिचारासिद्धेः । तृणादयश्च
पक्षीकृता इत्युक्तम् । उत्प्रेक्षणमात्रं तु न कर्तव्यमित्यपि प्रतिपादितमेव । ततः स्वभावतः
प्रतिबद्धं स्वसाध्येन यदि साध्यमन्तरेण भवेत्, स्वभावादेव प्रच्यवेतेति तर्कसहायं
निरस्तसाध्यव्यतिरेकवृत्तिसन्देहं भूधरादिषु दृष्टं स्वसाध्यमुपस्थापयितुं शक्तं किम्
अरुचिभिः ? ये तु पाण्डुत्वमृद्विकारगोत्वादयस्तेषां जात्यन्तरसमवायित्वेन प्रत्यक्ष एव
व्यभिचारोपलब्धेर्न ते हेतवः, जात्यन्तरसमवायिनो हिमादिगतपाण्डुत्वस्याग्नि
व्यभिचारात् । तथा मृद्विकारस्य स्थपत्यादिपूर्वकत्वेन

  1. परत्र वार्तिकसप्तश्लोकी द्रष्टव्या ।

  2. तुल० ता. टी. ४. १. २१