235
तदेवाग्नेर्हेतुः, तत्र तस्याव्यभिचारदर्शनात् । यत् पुनरग्निविलक्षणकारणजन्मपाण्डु
द्रव्यमात्रमर्थतो भिन्नं शब्दसाम्यादभेदि, न ततोऽग्नेरनुमानम्, तत्र तस्य व्यभिचारोप
लब्धेः । एवं मृद्विकारादिष्वपि योज्यम् । कार्यत्वसामान्यस्य त्वभूत्वाभावलक्षणस्य
पर्वतादिषु भावः परैरिष्ट एव । किं तु प्रतिबन्धासिद्धेरनैकान्तिकमिति ब्रुवते । स च
धूमादेरिव प्रतिपादित इति युक्तं ततस्तदनुमानमिति ॥

वित्तोकस्त्वाह, स्यादेतत् । न सपक्षविपक्षयोर्दर्शनमात्रेणाव्यभिचार
निश्चयोऽतदात्मनोऽतदुत्पत्तेश्चाव्यभिचारनियमायोगात् । तदिदं कार्यत्वं सन्दिग्ध
व्यतिरेकत्वादसाधनम् ॥

अत्रोच्यते । नास्ति विपक्षव्यावृत्तिसन्देहो धूमानलयोरिव कार्यबुद्धिमतोरुप
लम्भानुपलम्भसाधनस्य कार्यकारणभावस्य सिद्धत्वात् । कार्यविशेषस्यैव तदुत्पत्ति
सिद्धिर्न कार्यसामान्यस्य, यथा धूमादिवर्तिवस्तुत्वादेर्नानलादिजन्यत्वनिश्चय इति
चेत्—न, विशेषहेत्वभावात् । उपलम्भानुपलम्भयोस्तदुत्पत्तिसाधनत्वेनेष्टयोः साध्य
साधनसामान्ययोरविशेषात् कार्यविशेषस्येव कार्यमात्रस्यापि प्रबोधाश्रयायत्ततासिद्धेः ।
न चैवं वस्तुत्वस्यापि वह्निकार्यत्वम्, तदन्तरेणापि सहस्रश उपलम्भात् । ततो यथा
कार्यं वस्त्रादि उपादानवद् दृष्टमिति कार्यान्तरमपि तथा व्यवस्थाप्यते, तथा तदेव
वस्त्रादिकार्यं बुद्धिमद्धेतुकं दृष्टमित्यदृष्टकर्तृकमपि कार्य कर्तृपूर्वकं व्यवस्थाप्यते,
उपादानस्येव कर्तुरपि कार्येणानुकृतान्वयव्यतिरेकत्वात् । तेन यथा कार्यं च निरुपादानं
चेति न शक्यमाशङ्कितुम्, तथा कार्यं च भवेदकर्तृकं चेति नाशङ्कनीयम्, कार्यमात्रस्य
कर्तृमात्रादुपादानादिवात्पादसिद्धेरविशेषादिति ॥

यत् तूच्यते, अन्यादृशमेव कार्यं बुद्धिमता व्याप्तम्, यद्दृष्टेरक्रियादर्शिनोऽपि
कृतबुद्धिः, तच्चासिद्धं सिन्धुभूधरादाविति । ननु केयं कृतबुद्धिः ? किं साधनबुद्धिरथ
साध्यबुद्धिः ? साधनबुद्धिस्तावद् भवतां सिद्धैव, कर्मजं लोकवैचित्र्यमित्यभ्युपगमात् ।
अथोत्तरः पक्षः, तेनायमर्थो भवति, नेदं क्षित्यादिषूपलभ्यमानं साध्यानुमानसमर्थं
कार्यत्वं किं त्वन्यदेव साध्यबुद्धिजननात् । न चैतद् युक्तम्, सर्वानुमानोच्छेदप्रस
ङ्गात् । धूमादिष्वपि हि शक्यमेवं वक्तुम्—नायं वह्न्यनुमितिसमर्थो धूमः, किं त्वन्य
एव साध्यदर्शिनः साध्यबुद्ध्यजननात् । तथा च तावन्न साधनं सिध्यति, यावन्न साध्य
बुद्धिः सिध्यति । तावन्न साध्यबुद्धिः सिध्यति, यावन्न साधनं सिध्यतीति स्फुटतरमित
रेतराश्रयत्वमिति ॥