363
प्रथमं ग्राहकाकारो भिनत्ति ग्राह्यमात्मनः ।
देशरूपादिभेदेन तथा ग्राह्यान्तरादपि ॥
अद्वैतमेवेतरथा तदभावे भिदां द्यति ।
भेदाभेदौ ततो द्वैते नियतो नाद्वये तथा ॥
यावच्च स्वप्नबोधाय कालभेदं परामृशेत् ।
धीर्विकल्पान्तरेणेयं क्षयेण ग्रस्यतेऽन्यवत् ॥
तस्मान्न नित्यता नाम तत्त्वतो न च संवृतिः ।
क्षणितातत्त्वयोगेऽपि गृह्यतामनुमानवत् ॥
चित्रैकव्यवहारोऽपि भेदापोहपरो मतः ।
एकानेकवियुक्तो हि प्रकाशः केवलोऽत्र सन् ॥
सर्वशक्तिवियुक्तेन प्रकाशेन सतापि किम् ।
शक्यभावान्न कार्यं स्यात् स्वरूपं तु क्व गच्छतु ॥
प्रकाशस्यापि रूपं चेत् विचारेण न लभ्यते ।
विचारमनुमां विद्मो न सा प्रत्यक्षबाधनी ॥
गुञ्जानलविपर्यासौ बाध्यतेऽक्षकृतोऽपि चेत् ।
पररूपे भ्रमान्नाक्षं स्वरूपे भ्रान्तता कुतः ॥
2539प्रमाणमप्रमाणं चेद् विचारावसरो हतः ।
ब्रुवता नियतं किञ्चित् साध्यं वा बाध्यमेव वा ॥
तत्रायुक्तिं ब्रुवाणस्य श्लाघा सदसि कीदृशी ।
नानुमायाः परा युक्तिः किं सिद्धं तदनादरे ॥
स्वीकृता तेन सेत्यस्मात् तन्मत्या बोधनं यदि ।
अबाधनेऽस्याः स्वीकारात्तद्धिया
  1. तुल० रत्न० निब० पृः ८९