414

यदि हेतोः कुतोऽपि स्याद् बाधा हेतुफलस्थितेः ।
स एव हेतुरथ न सिद्धा हेतुफलस्थितिः ॥

तथा च,
न हेतुरस्तीति वदन् सहेतुक्रम्
2558

इत्यादि । न च परस्य निषेधप्रतिबन्धे कृते स्वयं सद्व्यवहारसिद्धिः । अथ परस्यापि
परामर्शसिद्धिप्रतिबन्ध एव, न केनचित् प्रमाणेन हेतुफलभावसिद्धिरिति नासद्व्यव
हारसिद्धिरिति चेत्— न, परेण तन्मात्रस्यैवारब्धत्वात् । सत्ताव्यवहारोऽपि हि
प्रसाधकप्रमाणाधीनः सिद्धः, तद्यदि हेतुफलभावेऽपि किञ्चित् प्रमाणं स्यात्, स्यात्
तद्भावः । तदभावे कथमेष इति ? तदयं हेतुफलभावः क्वचित् कदाचिदुपलम्भसं
भावनाविनाकृतो बहिरर्थेन सार्धं निरत्ययां मैत्रीमावहति ॥

बाह्ये दोषन्तरस्यापि संभवान्न तुलेति चेत् ।
दूषणान्तरमत्रापि यथाभाष्यकृतोदितम् ॥
विन्मात्रानवतारेऽपि सूत्रवार्तिकयोर्गिरः ।
तथैव बल