88a नाद् भाष्ये स्वकस्वातन्त्र्यबिम्बनम् ॥
नैवं वा किं न बाह्येऽपि दोषोऽयं केवलो मतः ।
यदि बाह्योऽनुभूयेतेत्यादि यत्नोऽन्यथा कथम् ॥

तदस्य तन्मैत्रीकृतो विधिः प्रतिषेधो वावधेयो धीमतामस्तु, किमपरेण ?
ननु तथाप्यत उपपत्तेरेतदायातमिति निगमयतोऽपगत एव हेतुः, अवश्यं चान्ततोऽनुप
लम्भोऽपि समाश्रेयः, तत् कथं हेतुपरिहारेण कश्चिद् युक्तिन्यासः ? न हि तादृक्
प्रस्तावे शक्यं मूकेन स्थातुम् ॥

ब्रुवता नियतं किञ्चित् साध्यं वा बाध्यमेव वा ।
तत्राहेतुं ब्रुवाणस्य स्वव्यापि प्रत्ययः कथम् ॥
ततो दुस्त्यज एवायं सता हेतुपरिग्रहः ।