105a मिदं मतीनाम् ।
न चात्मरूपानुभवो न पूर्वं
चित्तस्वभावत्वहतिप्रसक्तेः ॥
ततश्च तन्निश्चय एव नासीद्
आकारभेदोत्कलितश्च सोऽपि ।
न तत्त्वसंवृत्यनुगम्य चास्य
परव्यपेक्षाविरहेऽस्ति भेदः ॥
न च क्वचिन्नाम परस्य बोधः
स्वभावशून्यत्वमपि द्वयोः समम् ।
तदेकदा संवृतिरन्यदा ने
त्ययं विभागो भवतोऽपि किंकृतः ॥

अथवा,
न शून्यताया विरहः कदाचित्
साक्षात्क्रिया वापि परा न काचित् ।
न दोषनाशो न गुणोदयो वा
न संवृतिः कार्यविचार्यमाणा ॥
तदत्र यावन्न विचारसंभवो
भवोऽयमन्यः शम इत्ययं नयः ।
विचारलीलालुलिते तु मानसे
भवः शमो वा क इहेति कथ्यताम् ॥