464
तथा च सूत्रालङ्कारे,

न चान्तरं किञ्चन विद्यतेऽनयोः
सदर्थवृत्त्या शमजन्मनोरिह ।
तथापि जन्मक्षयतो विधीयते
शमस्य लाभः शुभकर्मकारिणाम् ॥

सदर्थवृत्त्या परमार्थवृत्त्या, शेषं संवृत्त्या । अभिसमयालंकारेऽपि,
स्वप्नोपमत्वाद् धर्माणां भवशान्त्योरकल्पना ।
अभिसमयालंकारालोके पृः ४४०

इत्यादिकम् । ततश्च जातिसिद्धम् ।
निर्वाणं च भवश्चैव द्वयमेतन्न विद्यते ।
परिज्ञानं भवस्यैव निर्वाणमिति कथ्यते ॥
नागार्जुनस्य

इति । अस्य दूषणं निरपराधमातृवध एव तदयं प्रकरणार्थः,

भेदोऽभेदो द्विधाऽद्वेधा धीरूपेऽस्तु यथा तथा ।
नालीकत्वं प्रकाशस्य बाधगन्धविरोधिनः ॥

विजानातीति विज्ञानमित्यादिकल्पितप्रपञ्चशून्यता तु सर्वत्र । तथा च न हि ते
स्वभूते धर्मास्तथा संविद्यन्ते यथा बालपृथग्जना अश्रुतवन्तोऽभिनिविष्ट इत्यादि विस्तरः ।
बुद्धिधर्मा अपि हि बुद्ध्यन्तरपरिकल्पितेन रूपेण सन्त एव न स्वसंवेद्यतया एव सत्त्वात् ।
एतेन स्वप्नमायोपमत्वं भगवतो व्याख्यातम् । दृष्टान्तेष्वपि हि निषेधोऽध्यवसितस्यैव न
प्रतिभासमानस्य । तस्मात् साकारस्यैव भगवतः सिद्धिर्बाधाविनाकृतेति स्थितम् । तथा च
नमस्कारश्लोकस्यार्थसिद्धिः—

सान्नव्यञ्जनलक्षणैरधिगतौदार्य निजेनात्मना
यद्गम्भीरमनन्यगोचरतया शून्यं प्रपञ्चोर्मिभिः ।
निर्माणैश्च यतः स्फुरन्ति जगतीं ज्ञानत्विषस्तन्नचा
लीकत्वेन कलङ्कितं वपुरतो भद्रं समन्तान्मुनेः ॥