112a क्तलोष्टे च । हस्त्यादीनामाकृतिर्वर्णसंस्थानम् । तद्भावेन हस्त्यादित्वेन,
प्रतिभासिता अध्यवसिता, असतोऽनुभवाभावात् । मरीचिषु जलस्येवाध्यवसानमात्रं
यत् तत्र हस्त्यादीनां तन्मायामात्रकृतमुक्तमित्यर्थः । तथा द्वयभ्रान्तिरिति सम्बन्धः ।
तस्या व्याख्यानम् परिकल्पितस्वभावं ग्राह्यग्राहकमेव, तस्यैवाकार उल्लेखोऽस्याभूत
परिकल्पस्य खण्डद्वयप्रतिभासात् । तस्य भावस्तत्ता । ग्राह्यग्राहकत्वेन प्रतिभासिता
ध्यवसिता । यथा मायादिषु हस्त्याद्यवसायस्तथाऽभूतपरिकल्पे द्वयावसाय इत्येवार्थः ।
तथा च,

यथा तस्मिन्न तद्भावः परमार्थस्तथेष्यते ।
यथा तस्योपलब्धिस्तु तथा संवृतिसत्यता ॥

यथा तस्मिन् न तद्भावो मायाकृते हस्तित्वाद्यभावः, तथा तस्मिन् परतन्त्रे
परमार्थ इष्यते । परिकल्पितस्य द्वयलक्षणस्याभावः । यथा तस्य मायाकृतस्य हस्त्यादि
भावेनोपलब्धिः, तथा तस्याभूतपरिकल्पस्य संवृतिसत्यवेत्नोपलब्धिः । अत्र मायाकृतं
मायारचितं मन्तव्यम् । हस्त्यादिभावेनोपलब्धिर्ज्ञानमध्यवसाय इत्यर्थः । संवृतिसत्यं
ग्राह्यग्राहकं तद्भावेनोपलब्धिरध्यवसायः । एतेन मूलेन विषयेण विषयिनिर्देश इति
दर्शितम् ।