485
तदभावे यथा व्यक्तिस्तन्निमित्तस्य लभ्यते ।
तथाश्रयपरावृत्तावसत्कल्पस्य लभ्यते ॥

यथा मायाकृतस्याभावे तस्य तन्निमित्तस्य काष्ठादिकस्य व्यक्तिभूताय उपलभ्यते,
तथाश्रयपरावृत्तौ द्वयभ्रान्त्यभावात् अभूतपरिकल्पस्य भूतार्थ उपलभ्यते । मूलेऽसत्कल्प
इत्यभूतपरिकल्प उक्तो भूतार्थो द्वयविवेकः ।

तन्निमित्ते यथा लोको ह्यभ्रान्तः कामतश्चरेत् ।
परावृत्तावपर्यस्तः कामचारी तथा यतिः ॥

यथा तन्निमित्ते काष्ठादावभ्रान्तो लोकः कामतश्चरति स्वतन्त्रः, तथाश्रयपरावृत्ताव
विपर्यस्त आर्यः कामचारी भवति स्वतन्त्रः । अत्र च काष्ठादियन्त्रमात्रमेतद् भ्रान्तज्ञाना
कारो वा न हस्ती न वा सुवर्णमिति निश्चयादिति मन्तव्यम् ।

तदाकृतिश्च तत्रास्ति तद्भावश्च न विद्यते ।
तस्मादस्तित्वनास्तित्वं मायादिषु विधीयते ॥

एष श्लोको गतार्थः ।

न भावस्तत्र चाभावो नाभावोभाव एव च ।
भावाभावाविशेषश्च मायादिषु विधीयते ॥

न भावस्तत्र चाभावो यस्तदाकृतिभावो नासौ न भावः । नाभावो भाव एव च,
यो हस्याद्यभावो नासौ नाभावः । तयोश्च भावाभावयोरविशेषो मायादिषु विधीयते ।
य एव तत्र तदाकृते