122b स्थानीयस्योत्थापनम्, परप्रसिद्ध्या वा ।
नायकस्तु वार्तिककार एवात्र युवराजनीतिप्रसाधनपदे संप्रतीत्यभिव्यक्तमेतत् । किं
च भूयः,

यन्मध्यमामवतरन्नपि न स्ववित्ति
मुल्लंघते स्वरुचिमाह यदाकृतीनाम् ।
यत्कार्यकारणगुणं च निराकरोति
रीतिस्ततो नयनिधेरपि सैव सिद्धा ॥
क्रूरासंख्यविपक्षराक्षसमुखाद् यः शासनस्यावने
शास्तुर्मूर्त इव प्रभावमहिमाचायः स्तुतिस्तस्य का ।
कस्यामन्दविमर्दमन्दरगिरिव्यापारमासाद्य वा
धन्यानां परमार्थसम्पदि मुदे दुर्गाधमेयाम्बुधिः ॥
पोतेनेप्सितमाप्यते जलनिधावित्युक्तिमात्रान्वयाद्
आरब्धं शिशुनापि चापलबलाच्छ्रुत्वापि भीतिर्यतः ।