555
नचान्तरं किञ्चन विद्यतेऽनयोः सदर्थवृत्त्या शमजन्मनोरिह ।
तथापि जन्मक्षयतो विधीयते शमस्य लाभः
शुभकर्मकारिणाम् ॥ १३९ ॥

तथा,

निर्वाणं च भवश्चैव द्वयमेतन्न विद्यते ।
परिज्ञानं भवस्यैव निर्वाणमिति कथ्यते ॥ १४० ॥
जलबुद्धावलीकत्वं नाकारस्य प्रयोजकम् ।
भ्रमव्यवस्थितौ तद्वद्ग्राह्यग्राहकविप्लवे ॥ १४१ ॥
सत्येऽसत्येऽथवाकारे नापराधोऽस्ति चेतसः ।
यदि प्रवृत्तेराक्षेपी बाह्यारोपो न जायते ॥ १४२ ॥
सत्याकारमपि ज्ञानं कल्पकं गोचरे ततः ।
प्रवृत्त्याक्षेपणाद् दुष्टं प्रवृत्तिः संसृतिर्यतः ॥ १४३ ॥
प्रवृत्तिरविकल्पेऽपि विकल्पेऽपि न सेति2620 चेत् ।
विशेषसरणेऽप्येव तत्रानिष्टिस्ततो न किम् ॥ १४४ ॥
अनादिकालिकाभ्यासाद्यथा किञ्चित् क्वचित् क्षमम् ।
तथा विकल्पस्यापीयं योग्यतानिष्टिसाधनी ॥ १४५ ॥
विकल्पे क्लेशभावोऽधिसत्त्वानामत एव हि ।
तद्वासनाहतौ यत्नो यावद्धेतुफलस्थितिः ॥ १४६ ॥
अलीकगोत्वाकारेण ख्यातिः सिद्धा न 2621गोमतेः ।
सत्याकारोऽपि संकल्पोऽध्यवसायः प्रवर्तनात् ॥ १४७ ॥
सत्यस्य गोत्वाकारस्य गोबुद्धौ भासनं यथा ।
तादात्म्यं चाव्यतिरिचोऽनारोपो वस्तुतापि च ॥ १४८ ॥
तथा नीलादिनिर्भासे सत्यस्य धवलादिनः ।
प्रकाशभावसिद्ध्यैव तादात्म्यं सत्यमिष्यताम् ॥ १४९ ॥
  1. सतीति मातृकायाम् ।

  2. गोमतो इति मातृकायाम् ।