560
न बाधा चेत् परेणास्ति सिद्धिरप्यस्तु नान्यतः ।
स्ववित्सिद्धिरपीदानीं साधनान्तरतः कथम् ॥ २४ ॥
कुतश्चित् कस्यचित् सिद्धिर्न तत्त्वे किं तु संवृतौ ।
यथा धूमादितोऽग्न्यादेर्मता सिद्धिरियं तथा ॥ २५ ॥
स्ववित्सिद्धिरतत्त्वे चेत् यावत् साध्याङ्गसंस्थितिः ।
तावत् तदेव तत्त्वं यत् सिद्धं साधनशक्तितः ॥ २६ ॥
यत्साधनबलात् सिद्धे स्वविन्मात्रे पुनः परम् ।
सिद्धिबाधनयोरस्ति नावकाशः कुतश्चन ॥ २७ ॥
न बोधयन् किञ्चिदन्यत्2623 प्रस्तुतत्यजनक्षमः ।
प्रस्तुतं वा त्यजन् नान्यस्यान्यतो ग्रहणक्षमः ॥ २८ ॥
अतएव परज्ञानं गृह्यमाणं स्वबाधनम् ।
स्ववित्तिहेतुत्रैरूप्यज्ञानस्याप्यवकाशतः ॥ २९ ॥
  1. न बोधन् किञ्चिदन्यस्मादिति मातृकायाम् ।